________________
૧૩૦
શાંકર વેઠાન્તમાં અવિદ્યાવિયાર્
६९.. न चैवम् अतिलाघवात् क्लृप्तानामधिकरणानामेवाभावधीहेतुत्वमस्तु किं विशेषाभावैरपीति. वाच्यम् । अद्वैतसिद्धि, पृ. ५५५
७०. अस्माकमिष्टापत्तेः, घटाभावो नेत्यादावतिरिक्ताभावस्य त्वयाप्यनभ्युपगमेन भावस्याप्यभावत्वप्रकारकप्रमाहेतुत्वस्योभयवादिसिद्धत्वात् । अद्वैतसिद्धि, पृ. ५५५
७९. यदपि कश्चिदाह प्रतियोगितावच्छेदकभेदस्याभावभेदनियामकत्वात् विशेषाभावान्यसामान्याभावसिद्धिः, अन्यथा अभावभेदासिद्धेः, प्रतियोगिभेदस्याभावभेदकत्वे एकघटप्रतियोगिक प्रागभावादिचतुष्टयस्याभेदप्रसन्नात्, अवच्छेदकभेदात् तु तद्भेदे न कोऽपि दोषः, क्वचित् तादात्म्यस्य क्वचित् संसर्गस्य क्वचित् पूर्वापरकालीनतद्घटत्वादेश्च भेदात् इति । अद्वैतसिद्धि, पृ. ५५५. ७२. तन्न, संसर्गप्रतियोगिविशेषणसाधारणस्यैकस्यावच्छेदकत्वस्य दुर्वचत्वात् तादात्म्यादेश्च प्रतियोगितावच्छेदकत्वे मानाभावात् । भेदसिद्धिस्तु भाववदभावस्यापि विरुद्धधर्माध्यासादेव । अवच्छेदकभेदस्याभावभेदनियामकत्वं लिङ्गविधया तज्ज्ञापकत्वमेव वाच्यम्, न तु तज्जनकत्वम् 'तच्च न, विपक्षबाधकतर्काभावेन सामानाधिकरण्याभावेन च व्याप्तेरेवासिद्धेः । अद्वैतसिद्धि, पृ. ५५५
७३. अत एव तदितरधर्मावच्छिन्नप्रतियोगिताकत्वं तदवच्छिन्नप्रतियोगिताकान्यत्वव्याप्यमित्यपि निरस्तम् । एवं चावृत्तीनां गगनादीनां समनियतानां वाऽन्येषां धर्माणामेक एवात्यन्ताभावः । अद्वैतसिद्धि, पृ. ५५५
७४. युगपद् विनष्टानामुत्पन्नानां वा समानदेशानामसति बाधके एक एव ध्वंसः प्रागभावो वा, व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकोऽपि चेदभावः प्रामाणिकः तदा तस्यैकस्यैव प्रतियोगिताः सर्वैरेव व्याधिकरणैः सर्वैश्च समानाधिकरणैः सम्बन्धैरेवावच्छिद्यन्ताम्, आकाशाभाव एव वा तथास्ताम्, एकेनैवोपपत्तावभावभेदकल्पने मानाभावात्। अद्वैतसिद्धि, पृ. ५५५
७५. न चैवमेक एव जगतीतले भवत्वभावः, स एव तत्तदवच्छेदकदेशकालादिभेदेन तत्तद्व्यवहारभेदं जनयिष्यतीति किमधिककल्पनयेति वाच्यम् । उपपद्यते चेदस्तु । प्रकृते तु न बाधकं किञ्चित् । अद्वैतसिद्धि, पृ. ५५५
७६. अत एव वैशेषिकाणां स्वाभ्युपगतकालपदार्थस्यैव सर्वव्यवहारहेतुत्वोपपत्तौ न पदार्थान्तरसिद्धिरित्यद्वैतवादिनो वदन्ति । तदेवं 'अहमज्ञः' इति ज्ञानस्याभावज्ञानसामग्रीविलक्षणसामग्रीजन्यत्वादभावविलक्षणविषयत्वं सिद्धम् । अद्वैतसिद्धि, पृ. ५५५