________________
श्रीपद्मसागरगणिरचितं जगद्गुरुकाव्यम् ।
त्वा श्रीबलिजं जिनं जयकरं श्रीपार्श्वनाथं पुनर्ध्यात्वा श्रीत्रिपुरां त्रिलोकमहितां सद्बुद्धिसिद्धिश्रियम् । काव्यं वक्ति जगद्गुरोः शिशुरसौ भावाऽवनभ्रस्त्रिधा हीराह्नस्मृति पद्मसागरकविः सौराष्ट्रराष्ट्रस्थितः ॥ १ ॥
जम्बूद्वीप विभूषणत क्षेत्रे . वरे भारते स्वर्णस्थालतलस्य दीपक इवोद्यन्मोदकक्षोदके अस्ति स्वस्तिगृहं द्विषोडशसहस्रोद्दामदेशोल्वणं खण्डं मध्यममुत्तमैर्नरवरै र्भोज्यं सदाज्यान्नवत् ॥ २ ॥ देशस्तत्र च गूर्जरो जरजनः स्वर्वत् सुवर्णान्वितो गीर्वाणाऽचलवद् गुणादरंकरः कामं धनुर्द्धारिवत् ।
साध्वीसाधुविशेषसंयमसुखः
सद्गच्छवच्छ्रीयुतः शृङ्गारवद्राजते
श्रीप्रह्लाऽक्षतपूरपूर्णनिधिकं
चित्राङ्गमातङ्गजो
दाराश्वं च पुरोहिताङ्गसचिवं वीराधिवीराश्रितम्
शश्वत् केशववद्विचित्ररचनः
•
॥
३९
||
४ ||
कुंरस्तत्र वणिक्कलासु - निपुणः सम्यक्त्वपूतोऽभवदोकेशान्वयभूषणं धनवतां मध्ये प्रतिष्ठां गत: 1 - जिग्ये येन. सितोदरः पटुधनैर्वर्गत्रयीसाधनैनचेदेष ततः कथं नरपुरे नामाऽवशिष्टोऽधुना ? ॥ ५ ॥ नाथी तस्य पतिव्रता कुलवर्धूधर्मोदिता सुन्दरी गेहं भूषयतीव कल्पलतिका मेरुं सुपर्वोत्सवम् ।