SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ स्वं गाढाग्रहिणं कदाग्रहमथाङ्करं विहाय स्वयं लुम्पाका ऋषिमेघजीप्रभृतयः श्रेयोऽर्थिनोऽल्पेतराः । . भृङ्गत्वं बिभरांबभूवुरनिशं यत्पादपाथोरुहे. सिद्ध्यै तस्य मुनीन्द्रहीरविजयस्यानन्दिके पादुके ॥ ६॥ चैत्याद्युद्धरणैर्ऋतानुसरणैः सन्मानदानोत्सवैरेकच्छत्रमिवाभवद् भगवतां सद्वासनं शासनम् । यस्मिञ् श्रीतपगच्छवल्लिजलदेऽलंकुर्वतिः । क्ष्मातलं . सिद्धयै तस्य मुनीन्द्रहीरविजयस्यानन्दिके पादुके ॥ ७॥ श्रीवत्सध्वजमत्स्यचक्र कु लिशच्छ त्राङ्क शाम्भोरुहा- . म्भोधिस्वस्तिकचामरद्विपनिपद्वीपादिचिह्नाङ्किते . । ये नित्यं नमतां भवन्ति वशगा राज्यद्धयः सिद्धयस्ते सूरेस्त्रिदशस्तुते सुजयतामानन्दिके पादुके ॥ ८ ॥ प्रत्यूषे प्रतिवासरं . प्रगुणितप्रौढप्रमोदः पुमानेतत् स्पष्टकमष्टकं पठति यः कृत्वैकतानं मनः । सौभाग्यादिगुणौघरत्नखनयः क्रीडन्ति. तस्यौकसि प्राज्याः प्रीणितपुण्यहेमविजयानन्दादिसंपत्तयः ॥ ९ ॥ इति तपागच्छाधिराजश्रीहीरविजयजसूरीश्वरपादुकाष्टकं संपूर्णमिति भद्रं निजपठनकृते कीर्तिविजयगणिनाऽलेखीति भद्रं भूयात् । संवत १६५८ वर्षे मार्गशीर्ष शु०७ । OOOOC8x]DORO
SR No.005849
Book TitleHir Swadhyaya Part 02
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy