________________
सच्चारित्रविभूषिताङ्गमुनिपं साधुव्रजैस्सेवितम्
भव्यप्राणिगणैः सदोदययुतैः संसेव्यमानं मुदा भव्यानां भवदुःखतापहरणे मेघोपमं मत्प्रभुम्
वन्देहं जनताप्रमोदजनकं विश्वत्रयीतारकम् ॥ ६ ॥ जीयाच्छ्रीगुरुराजपादयमलं भव्याब्जसूरोपमम्
__ कल्याणावलिसारकेलिसदनं भव्यालिपापापहृत् हर्षोत्कर्षकरं मुनीन्द्रविमलं चक्रोद्धरेखान्वितम् ...
मान्द्रादिनतेच्छते वरमुने स्वर्गापवर्गप्रदम् ॥ ७ ॥ धर्मारामरतं सदोदययुतं संसारनिस्तारकम्
___ सर्वप्राणिदयान्वितं वरगुरुं प्रद्युम्नदर्पापहम् साध्वाचाररतं महाव्रतयुतं सत्त्वक्षमाधारकम् . .
सेव्यं साधुकदम्बकैर्वरनरैर्हर्षोल्लसन्मानसैः ॥ ८ ॥ सच्चारित्रविराजितैः शिवरतैर्वाध्रक्रियाकारकैः
. धर्मध्यानरतैर्विनेयहितदैः सत्संगसेवापरैः . स्वाध्यायप्रवणैर्गुणौघनिलयैर्ज्ञानत्रयाधारकैः
वंदेहं भुविभुप्रमोदजनकं गच्छाधिपं श्रीगुरुम् ॥ ९ ॥
___ शार्दूलविक्रीडितम् जयतु सज्जनलोकहितावहा रविकलाविमलाजनतापहा . .
भविकपंचजनस्फटमंगलं सुगुरुपादनखप्रवरच्छविः ॥ १० ॥ शिवरमारमणीरमणोपमा प्रवरसाधुपते तव दर्शनम्
मम मनःस्मितपङ्कजभासन ग्रहपते जयति स्फटमंगलम् ॥ ११॥ शिवरमानयविगतस्पृह प्रणतभक्तिकलोककदम्बकम्
विशदपञ्चमहाव्रतपालन प्रसितसाधुपते जनशर्मद ॥ १२॥ सकलसाधुशिरोमणिनायकं विबुधलक्षसुसेवितपत्कजम्
कुमततापनिवारणवारिदं नमत भव्यजनाः खलु सादरम् ॥ १३ ॥ COCOCCER BOOK