SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ पं. उदयवर्धनरचितं श्रीविजयदानसूरिस्तोत्रम् श्रीवीरं प्रणिपत्य सादरतया श्रीगौतमस्वामिनं संसारांबुनिधौ निमज्जदसुमत्पोतायमानं सदा दानादिप्रविभाषकं वरनृभिस्संसेव्यमानं प्रभुदम् मर्चासंस्तवनादिभेदनिकरैः स्याद्वादिनं शर्मदं ॥ १ ॥ लब्ध्यादिप्रविराजमानमनिशं वाचंयमैः सेवितं सिद्धान्तादिविशालशास्त्रकरणे लोकेश साधारणं नत्वाहं श्रवणप्रकाण्डमचिराच्छ्रीशारदां वाग्विदामम् मिष्टार्थप्रतिपादनैकरसिकास्तोष्ये मुदा श्रीगुरुम् । युग्मम् ॥ २ ॥ श्रीगच्छाधिपसंस्तुतिं कथमहं कर्तुं क्षमः कुण्ठधीः त्वद्भक्त्या खलु नोदितोस्मि भगवन् क्व त्वं क्व मे स्वल्पधीः मिथ्यात्वादिमहांधकूपपततामालम्बनं श्रीगुरोः पादाब्जं प्रवराब्जकोमलमघं व्यापादनं संस्तुवे ॥ ३ ॥ यत्पादाम्बुजसेवनेन विमला बुद्धिर्मनोहारिणी स्याच्छोभादिगुणावली च विलसत् वर्गादिप्राप्तिः शुभा आचारप्रतिपादकप्रविशदं ज्ञानं भवेत्सर्वदा तत्पादाम्बुजमेव संसृतिमहाटव्याः पुनः पातु वः ॥ ४ ॥ भव्याब्जालिविबोधनैकतरणि कन्दर्पदर्पापहम् सिद्धान्तार्थविचारणे सुरगुरुं सर्वार्थसम्पादकम् साराब्धिकुबोधतोयलहरी यानोपमंतागृहम् विश्वप्राणिदयं महत्सुगुणिनं श्रेयस्करं प्राणिनाम् ॥ ५ ॥ २८७
SR No.005849
Book TitleHir Swadhyaya Part 02
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy