SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ शत्रुजयोर्वीभृति - नंदिवर्द्धनाभिधं सदा यच्छतु वांछितानि वः ॥ ६०॥ [प्राज्य] यः प्रभाभरविनिर्मितनेत्रशैत्ये चैत्ये ऽत्र भूरिरभवद् विभवव्ययो यः । ज्ञात्वा वदंति मनुजा इति तेजपालं . कल्पद्रुमत्ययमनेन धनव्ययेन ॥ ६१॥ शत्रुजये. गगनबाणकला १६५० मितेऽब्दे यात्रां चकार सुकृताय स तेजपालः । चैत्यस्य तस्य सुदिने गुरुभिः प्रतिष्ठा चक्रे च हीरविजयाभिधसूरिसिंहैः ॥ ६२ ॥ मार्तण्डमण्डलमिवांबुरुहां. . समूहः पीयूषरश्मिमिव नीरनिधेः प्रवाहः । केकिव्रजः सलिलवाहमिवातितुंगं चैत्यं निरीक्ष्य मुदमेति जनः समस्तः ॥ ६३ ॥ छ चैत्यं चारु चतुर्मुखं कृतसुखं श्रीरामजीकारितं • प्रोत्तुंगं जसुठक्कुरेण विहितं चैत्यं द्वितीयं शुभम् । रम्यं कुअरजीविनिर्मितमभूच्चैत्यं तृतीयं पुनद्लश्रेष्ठिकृतं निकामसुभगं चैत्यं चतुर्थं तथा ॥ ६४॥ . एभिर्विश्वविसारिभिर्युतिभरैरत्यर्थसंसुत्रितोद्द्योतो दिक्ष्वखिलासु निर्जरपतिः स्वर्लोकपालैरिव । श्रीशत्रुजयशैलमौलिमुकुटं चैत्यैश्चतुर्भिर्युतः प्रासादो ऽङ्गिमनोविनोदकमलाचैत्यं चिरं नंदतु ॥ ६५ ॥ वस्ताभिधस्य वरसूत्रधरस्य शिल्पं चैत्यं चिरादिदमुदीक्ष्य निरीक्षणीयम् । शिष्यत्वमिच्छति कलाकलितोऽपि विश्व .कर्माऽस्य शिल्पिपटले भवितुं प्रसिद्धः ॥ ६६॥ LOOC240 BO
SR No.005849
Book TitleHir Swadhyaya Part 02
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy