________________
1
अथ सूरेर्दीक्षादिनादारभ्य यत्किञ्चित्तपो विहितं तदुच्यतेसूरीन्दुरेकाशनकं न यावज्जीवं जहौ न्यायमिव क्षितीन्द्रः पञ्चापि चासौ विकृतीरहासीद्गुणान् स्मरस्येव पराबुभूषुः ॥ १ ॥ द्रव्याणि वल्भावसरे व्रतीन्द्र, सदाददे द्वादश नाधिकानि । किं भावनाः पोषयितुं विशिष्य, भवाब्धिपारप्रतिलम्भयित्रीः ॥ २॥ स्वपापालोचपदे सूरिः त्रिशतीमुपोषणानां व्यतानीत्, सपादां द्विशतीं षष्ठानकरोत्, चतुर्विंशतित्रिकध्यातुमना अष्टमानां द्वासप्ततिं निर्मिमीते स्म, पुनराचाम्लसहस्रयुग्मं चक्रे पुनर्विंशत्याचाम्लकैर्विशतिस्थानकान्यातनुते स्म, पुनर्द्विसहस्रनिर्विकृतीश्चक्रे । पुनः स एकदत्तिरेकस्मिन् वारके पात्रे यत्रानघच्छिन्नं पानीयान्नादिकं पतेत्सैकदत्तिरुच्यते, यस्मिंश्चैकमेव सिक्थं भुज्यते नान्यत् तदेकसिक्थं, तत्प्रमुखानि तीव्राणि तपांसि चक्रे । पुनः सहस्रत्रयोत्तरषट्शतान्युपवासान् चकार । पुनः प्रथममुपवासस्तत एकभक्तं, तत आचाम्लं, पुनरुपोपणं, एवं त्रयोदश मासान् यावद्विजयदानगुरोस्तपो विदधे । पुनर्द्वार्विंशंतिमासान् यावद्योगवाहनैः कृत्वा तीव्रतपांसि कृतवान्ं । पुनर्मासत्रयं यावत्सूरिमन्त्रं विधिनाऽऽरराध । पुनश्चतुः कोटिमितान् स्वाध्यायान् गणयति स्म। पञ्चाशदर्हत्प्रतिमाप्रतिष्ठा अनुतिष्ठति स्म । इत्यादिबहुविधधर्मकृत्यानि विधायोन्नताख्ये पुरे सं० १६५२ भाद्रपदसितैकादशीतिथौ महामन्त्रं स्मरन् देवभूमिं प्रापेति । सूरिस्ततः संश्रयति स्म शुक्लध्यानं दधानः स सुधारसौघम् । काङ्क्षन्महानन्दपुरे प्रयातुं प्राक्तस्य मार्गस्य दिदृक्षयेव ॥ १ ॥ ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ स्त्राभिश्चतुर्विंशतितमः स्तम्भः संपूर्णः ॥ ॥ मूलतत्रिशत्युत्तरषष्टितमः-३६०-सम्बन्धः ॥
पञ्चदशभिर
व्याख्यानम् - १४७
तथाऽष्टाहिकपर्वसु अमारिप्रवर्त्तनं कार्यं । श्रीकुमारनृपसंप्रतिनृपादिभि संप्रतिकालेऽपि श्रीहीरगुरूपदेशादकब्बरसाहिना स्वकीयाखिलदेशेषु षाण्मासिकामारिप्रवर्त्तनं कृतं । तथाहि समासतः
एकदा स्वप्रधानादिभ्यो हीरसूरेर्वर्णनं श्रुत्वा श्रीअकब्बरेण स्वनामांकितफुरमानं प्रेष्यातिबहुमानेन गंधारत: आहूता: सं- १६३८. ज्येष्ठवहुलत्रयोदशीदिने BEBECERECEDE
१२८
-