________________
E
MEX
शीतोष्णीयाखं तृतीयमध्ययनं
संयमस्थितेन जितकषायेण सुखदुःखतितिक्षा विधेया ।
प्रथम उद्देशकः
भावनिद्रया सुप्ता असंयताः ।
द्वितीय उद्देशकः असंयता यथा दुःखमनुभवन्ति तथोच्यते ।
तृतीय उद्देशकः न केवलं दुःखसहनात् पापाकरणाच्च श्रमणः किन्तु रागद्वेषाकरण
रूपसंयमानुष्ठानात् ।
चतुर्थ उद्देशकः कषायाणां वमनं कार्यं, पापस्य च कर्मणो परिहारः विदुषः संयमः कैवल्यं
मोक्षश्च ।
सम्यक्त्वाख्यं चतुर्थमध्ययनं : सम्यक्त्त्वप्रतिपादनम्
प्रथम उद्देशकः
यथावस्थितवस्त्वाविर्भावनरूपः सम्यग्वादः
द्वितीय उद्देशकः धर्मप्रवादिकपरीक्षा ।
तृतीय उद्देशकः अनवद्यतपोवर्णनम् । चतुर्थ उद्देशकः संयमप्रतिपादनम् ।
लोकसाराख्यं पञ्चममध्ययनं : प्रधानमोक्षाङ्गत्वात् चारित्रमेव लोकसारः ।
प्रथम उद्देशकः हिंसकविषयारम्भक एकचरो न मुनिः
द्वितीय उद्देशकः हिंसादिपापस्थानकेभ्यो विरतो मुनिः । तृतीय उद्देशकः विरतो मुनिपरिग्रहो भवतीति निर्विण्णकामभोगश्च । चतुर्थ उद्देशकः अव्यक्तस्य प्रत्यपाया भवन्ति ।