SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २७८ પડ્રદર્શન १३ चेतिस शक्तिमात्रप्रतिष्ठानां बीजभावोपगमः । तस्य प्रबोध आलम्बने संमुखीभावः । योगभाष्य २. ४ । १४ प्रतिपक्षभावानोपहताः क्लेशास्तनवो भवन्ति । योगभाष्य २. ४ । १५ तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः । समाधिभावनार्थः क्लेशतनूकरणार्थश्च । योगसूत्र २. १-२ । १६ तथा विच्छिद्य तेन तेनात्मना पुनः समुदाचरन्तीति विच्छिन्नाः । कथम् ? रागकाले क्रोधस्यादर्शनाद् न हि रागकाले क्रोधः समुदाचरति । रागश्च क्वचिद् दृश्यमानो न विषयान्तरे नास्ति, नैकस्यां स्त्रियां चैत्रो रक्त इत्यन्यासु स्त्रीषु विरक्त इति किन्तु तत्र रागो लब्धवृत्तिरन्यत्र भविष्यवृत्तिरिति । स हि (भविष्यवृत्तिः) तदा प्रसुप्ततनुविच्छिन्नो भवति । योगभाष्य २. ४ । १७ विषये यो लब्धवृत्तिः स उदारः । योगभाष्य २. ४ । १८ प्रसङ्ख्यानवतो. दग्धक्लेशबीजस्य संमुखीभूतेऽप्यालम्बने नासौ पुनरस्ति, दग्धबीजस्ये कुतः प्ररोह इति । अतः क्षीणक्लेशः कुशलश्वरमदेह इत्युच्यते । तत्रैव सा दग्धबीजभावा पञ्चमी क्लेशावस्था नान्यत्रेति । सतां क्लेशानां तदा बीजसामर्थ्य दग्धमिति विषयस्य संमुखीभावेऽपि सति न भवत्येषां प्रबोधः... । योगभाष्य २. ४ । १८ विवेकख्यातिरविप्लवा हानोपायः । योगसूत्र २. २६ । ततो मिथ्याज्ञानस्य दग्धबीजभावोपगमः पुनश्चाप्रसव इत्येष मोक्षस्य मार्गो हानस्योपाय इति । योगभाष्य २. २६ । ध्यानहेयास्तवृत्तयः । योगसूत्र २.११ । क्लेशानां या वृत्तयः स्थूलाः ताः क्रियायोगेन तनूकृताः सत्यः प्रसङ्ख्यानेन ध्यानेन हातव्या यावत् सूक्ष्मीकृता यावद्दग्धबीजकल्पा इति । योगभाष्य २. ११ । २० ते प्रतिप्रसवहेयाः सूक्ष्माः । योगसूत्र २. १० । ते पञ्चक्लेशा दाधबीजकल्पा योगिनश्चरिताधिकारे चेतसि प्रलीने सह तेनैवास्तं गच्छन्ति । योगभाष्य २. १० । . २१ क्लेशमूलः कर्माशयः । योगसूत्र २. १२ ।
SR No.005833
Book TitleShaddarshan Part 01 Sankhya Yog
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherUniversity Granthnirman Board
Publication Year1973
Total Pages324
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy