SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १४८ પદર્શન इति । परोक्षे त्वन्तःकरणत्रयस्य ब्राह्येन्द्रियवर्ज वृत्तिरित्याह- ‘अष्टे त्रयस्य तत्पूर्विका' । अन्तःकरणस्य युगपत् क्रमेण च वृत्तिदृष्टपूर्विकेति...। सां० त० कौ० ३० । ५3 क्रमशश्च तस्य निर्दिष्टा । तस्येति चतुष्टयमपि सम्बध्यते । चशब्दोऽवधारणार्थः । क्रमश एवेत्यर्थः । क्रमश एव हि बाह्यान्तःकरणवृत्त्योरेकार्थनिपातः । दृष्टे तथाऽप्यदृष्टे क्रमशः एव चतुष्टयस्य वृत्तिः ।...त्रयस्य तत्पूर्विका वृत्तिः । न तावद् बुद्धयहकारमनसां साक्षाद् बाह्यार्थग्रहणसामर्थ्यमस्ति, अन्तःकरणानुपपत्तिप्रसङ्गात्, श्रोत्रादिवैयर्थ्यप्रसङ्गात्, द्वारिद्वारभाचव्याघाताच्च । तस्मात् पूर्वं श्रोत्रादीनामर्थसम्बन्धोऽस्ति । मेघस्तनितादावप्यवश्यमेतदभ्युपगन्तव्यम् । पश्चात्तु तवृत्त्युपनिपातादन्तःकरणस्येत्यस्ति क्रमोऽत्रापि । तत्र यदुक्तम् 'मेघस्तनितादीषु क्रमाननुगते युगपच्चतुष्टयस्य वृत्तिः' इत्येतदयुक्तम् ।...अस्य दृष्टे वर्तमाने युगपवृत्तिः पूर्वाचार्यैर्निदिष्टा, आचार्येण तु क्रमेणेत्यर्थः । अदृष्टेऽतीतादावपि क्रमशश्च क्रमेणैव, यतस्त्रयान्तःकरणस्य तत्पूर्विका बाह्येन्द्रियपूर्विका वृत्तिः । यदा यथाऽनुभवस्तथा संस्कारः, यथा च संस्कारस्तथा स्मृतिरित्येवं वृत्तिर्बाह्येन्द्रियपूर्विकेति । युक्तिदी० ३० । ५४ अक्रमशश्च रात्रौ विद्युदालोके व्याघ्रं दृष्ट्वा झटित्यपसरति तत्र चतुर्णामेकदा वृत्तिः । यद्यपि वृत्तीनामेकदाऽस्म्भवात् तत्राप्युत्पलदलशतपत्रव्यतिभेदवदवभासनादक्रम इत्युक्तम् । अनिरुद्धवृत्ति, सां० सू० २.३२ । । ५५ एवमेषा युगपच्चतुष्टस्य वृत्तिः । किञ्च, अन्यत् क्रमशश्च तस्य निर्दिष्टा । माठर सां० का० ३० । ५६ युगपच्चतुष्टयस्य बुद्ध्यहङ्कारमनसामेकैकेन्द्रियसम्बन्धे सति चतुष्टयं भवति...किश्य क्रमशश्च तस्य निर्दिष्टा । तस्येति चतुष्टयस्य क्रमशश्च वृत्तिर्भवति । गौडपाद सां० का० ३० । ५७ क्रमशोऽक्रमशश्चेन्द्रियवृत्तिः । सां० सू० २.३२ । ५८ सां० प्र० भा० २.३२ ।।
SR No.005833
Book TitleShaddarshan Part 01 Sankhya Yog
Original Sutra AuthorN/A
AuthorNagin J Shah
PublisherUniversity Granthnirman Board
Publication Year1973
Total Pages324
LanguageGujarati
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy