________________
૧૩૦
ષદર્શન પાદટીપ
१ सां० का० २५ ।
२ महतः षडविशेषाः सृज्यन्ते पञ्चतन्मात्राण्यहङ्कारश्चेति विन्ध्यवासिमतम् । युक्तिदी० २२ (उत्थानिका)
3 एकरूपाणि तन्मात्राणीत्यन्ये । युक्तिदी० २२ (उत्थानिका)
४ एकोत्तराणि इति वार्षगण्यः । युक्तिदी० २२ (उत्थानिका)
५ षडविशेषाः । तद्यथा - शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्र चेत्येकद्वित्रिचतुष्पञ्चलक्षणाः शब्दादयः पञ्चाविशेषाः षष्ठ चाविशेषोऽस्मितामात्र इति । योगभा० १. १९ ।
६ तत्र शब्दतन्मात्रादाकाशं शब्दगुणम्, शब्दतन्मात्रसहितात् स्पर्शतन्मात्राद् वायुः शब्दस्पर्शगुणः, शब्दस्पर्शतन्मात्रसहिताद् रूपतन्मात्रात् तेजः शब्दस्पर्शरूपगुणम्, शब्दस्पर्शरूपतन्मात्रसंहिताद् रसतन्मात्राद् आपः शब्दस्पर्शरूपरसगुणाः, शब्दस्पर्शरूपरसतन्मात्रसहिताद् गन्धतन्मात्राद् शब्दस्पर्शरूपरसगन्धगुणा पृथिवी जायत इत्यर्थः । सां० त० कौ० २२ ।
७ तत्र शब्दतन्मात्रादाकाशम्, स्पर्शतन्मात्राद् वायुः, रूपतन्मात्रात् तेजः रसतन्मात्राद् आपः, गन्धतन्मात्रात् पृथिवी । तेभ्यो भूतानीत्येतावति वक्तव्ये पञ्च पञ्चभ्य इति ग्रहणं समसङ्ख्याकतस्तदुत्पत्तिज्ञापनार्थम् । तेनैकैकस्मात् तन्मात्रादेकैकस्य विशेषस्योत्पत्तिः सिद्धा । ततश्च यदन्येषामाचार्याणामभिप्रेतम् एकलक्षणेभ्यस्तन्मात्रेभ्यः परस्परानुप्रवेशादेकोत्तरा विशेषा सृज्यन्त इति तत् प्रतिषिद्धं भवति । किं तर्हि ? अन्तरेणापि तन्मात्रानुप्रवेश- मेकोत्तरेभ्यः तन्मात्रेभ्य एकोत्तराणां भूतविशेषाणामुत्पत्तिः । तत्र शब्दगुणात् शब्दतन्मात्रादाकाशमेकगुणम्, शब्दस्पर्शगुणात् स्पर्शतन्मात्राद् द्विगुणो वायुः, शब्दस्पर्शरूपगुणाद् रूपतन्मात्रात् त्रिगुणं तेजः, शब्दस्पर्शरूपरसगुणाद् रसतन्मात्राद् चतुर्गुणा आपः शब्दस्पर्शरूपरसगन्धगुणाद् गन्धतन्मात्रात् पञ्चगुणा पृथिवी । युक्तिदी० ३८ ।
८ लक्ष्यतेऽनेनेति लक्षणं धर्म, तन्मात्राणां द्रव्यत्वलाभाय लक्षणपदम् । तथा चोत्तरोत्तरतन्मात्रेषु पूर्वतन्मात्राणां हेतुत्वात् शब्दतन्मात्रं शब्दमात्रधर्मकं, तत्कार्यतया स्पर्शतन्मात्रं शब्दस्पर्शोभयधर्मकम् एवं क्रमेणैकैकलक्षणधर्मवृद्धिरित्यर्थः । योगवा० २.१९ ।
८ सां० त० कौ० ३४ तथा ३८ ।
१० युक्तिदी० ३८ ।
११ योगभा० २.१९ ।