________________
સાંખ્યદર્શન
- ૧ ૨ ૫. ४ सात्त्विकमेकादशकं प्रवर्तते वैकृतादहशारत् । सां० सू० २.१८ । एकादशानां
पूरणमेकादशकं मनः षोडशात्मगणमध्ये सात्त्विकम् । अतस्तद्वैकृतात् सात्त्विकाहशा- राज्जायत इत्यर्थः । अतश्च राजसाहङ्कारद् दशेन्द्रियाणि, तामसाहकाराच्च तन्मात्राणीत्य
वगन्तव्यम् । सां० प्र० भा० । ५ अहङ्कारश्चाभिमानवृत्तिकमन्तःकरणद्रव्यं न त्वभिमानमात्रम् । द्रव्यस्यैव लोके द्रव्योपादानत्वदर्शनात् । सुषुप्त्यादावहारवृत्तिनाशेन भूतनाशप्रसङ्गाद् वासनाश्रयत्वे
नैवाहङ्काराख्यद्रव्यसिद्धेश्च । सां० प्र० भा० १.६३ । ६ तथा च शास्त्रमाह - "एतस्माद्धि महत आत्मन इमे त्रय आत्मानः सृज्यन्ते
वैकारिकतैजसभूतादयोऽहकारलक्षणाः । अहमित्यैवैषां सामान्यलक्षणं भवति । गुणप्रवृत्ती च पुनर्विशेषलक्षणमिति"...एषा गुणप्रवृत्तिर्व्याख्याता यस्यामस्मिप्रत्ययस्य विशेषग्रहणं भवति-शब्देऽहं स्पर्शेऽहं गन्धेऽहमिति । युक्तिदी० २४ ।