________________
'४४
मूलत्तरभावतो वा काष्ठमुपलक्षणत्वात् उपलेष्टकादि वा ग्राह्यं, जानीहि द्विविधभेदं विनाशनीयम् । इह मूलभावापन्नं स्तम्भकुम्भिकापट्टादि योग्यं काष्टदलम् , उत्तरभावापन्नं तु पीठप्रभृत्युपर्याच्छादकतया प्रवृत्तम् । इत्थं विनाशनीयद्वैविध्याद् विनाशनं द्विविधमुक्तं । संमति विनाशकभेदात्तदाह-स्वपक्षपरपक्षादि वा । स्वपक्षः साधुश्रावकादिरूपः, परपक्षस्तु मिथ्यादृष्टि लक्षणो, यश्चैत्यद्रव्यविनाशकः, आदिशब्दाद् मिथ्यादृष्टिभेदा एके गृहस्थाः पाखण्डिनञ्च चैत्यद्रव्यविनाशका गृह्यन्ते । ततोऽयमभिप्रायः-योग्यातोत्तरभेदाद मूलोत्तरभेदाद् स्वपक्षपरपक्षगतयोर्गहस्थपाखण्डिरूपयोर्वा विनाशकयोर्भेदात् प्रागुक्तं तद्रव्यविनाशनं द्विविधभेदमिति ॥
મૂલકાર શ્રી હરિભદ્રસૂરિજી ફર્માતે હ: