SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ૪૨૨ भसधारीडेभयन्द्रसूरिकृत टीप्पा (भाग - ६) पञ्चमीप्रतिमा मतान्तरेण रात्रौ प्रत्याख्यातचतुर्विधाहारस्यैवेति एतावन्मात्रेण भवतीत्यवगन्तव्यमिति । परमाधामिकविचारप्रस्तावे 'धाडेंति' गाहा ( ११२ - ८) तत्राम्बाभिधानाः परमाधार्मिकाः स्वभवनान्नरकावासं गत्वा क्रीडंया नारकानत्राणान् सारमेयानिव शूलादिप्रहारैस्तुदन्तो “धाडिति "त्ति प्रेरयन्ति स्थानात्स्थानान्तरं प्रापयन्तीत्यर्थः, तथा " पहाडेंति" त्ति स्वेच्छयेतश्चेतश्च भ्रमयन्ति, 5 तथाऽम्बरतले प्रक्षिप्य पुनर्निपतन्तं मुद्गरादिना घ्नन्ति, तथा शूलादिना विध्यन्ति, तथा “निशुभंति” त् कृकाटिकायां गृहीत्वा भूमौ पातयन्त्यधोमुखास्तथोत्क्षिप्याम्बरतले मुञ्चन्तीत्येवमादिकया विडम्बना तत्र नारकान् कदर्थयन्तीति गाथार्थ: । 'ओहयहए' त्यादि गाथा (११२ - ९) उप - सामीप्येन मुद्गरादिना हता उपहताः पुनरप्युपहंता एव खड्गादिना हता उपहतहतास्तान् तस्यां नरकपृथिव्यां निःसंज्ञकान्– नष्टसंज्ञान् मूच्छितान् सतः कर्प्पणीभिः कल्पयन्तीति - छिन्दन्तीति, तथा "विदलगं "ति द्विदलच्छिन्नान् 10 कुर्व्वन्ति “चटुलग" त्ति खण्डशः छिन्नान्नारकाँस्तत्र नरकपृथिव्यामम्बर्षिनामानः सुराः कुर्व्वन्तीति । . ‘साडणे'त्यादि गाथा (११२ – १०) तथाऽपुण्यवतां - तीव्रासातोदये वर्त्तमानानां नारकाणां श्यामाख्याः परमाधार्मिकाः एतच्चैतच्च प्रवर्त्तयन्ति, तद्यथा - सातनमङ्गोपाङ्गानां छेदनं, तथा पातनं - निष्कुटादधो वज्रभूमौ प्रक्षेपः, तथा तोदनं - शूलादिना व्यथनं, तथा सूच्यादिना नाशिकादौ वेध:, तथा रज्ज्वादिना क्रूरकर्म्मकारिणं बध्नन्ति, तथा तलप्रहारादिभिस्ताडयन्त्येवं दुःखोत्पादकं दारुणं शातनपातनवेधन15 बन्धनादिकं बहुविधं प्रवर्त्तयन्तीति – व्यापारयन्तीति । 'अंतगए' त्यादि गाथा (११३-१) तथा शबलाख्या नरकपालास्तथाविधकर्म्मोदयसमुत्पन्नक्रीडापरिणामा अपुण्यभाजां नारकाणां यत्कुर्व्वन्ति तद्दर्शयतितद्यथा—अन्त्रगतानि फिफिसानि - अत्रान्तर्वर्त्तीनि मांसविशेषरूपाणि आकर्षयन्तीत्यध्याहारः, एवमन्यत्रापि क्रियाऽध्याहारोऽभ्यूह्य इति, तथा हृदयं पाटयन्ति तथा तद्गतं "कालिज्ज "न्ति हृदयान्तर्वत्ति मांसखण्डं तथा "फुप्फुसे "त्ति उदरान्तर्वर्त्ती अन्त्राद्याश्रितमांसविशेषस्तं च, तथा 20 वल्कान्– वध्राण्याकर्षयन्तीति सर्वत्र गम्यते, एवं ते नारकाणां नानाविधं दुःखमपुण्यवतां प्रवर्त्तयन्तीति । ‘असिसत्ति' गाहा (११३ – ३) 'भज्जंति 'गाहा, (११३ - ४) एते द्वे अपि सुगमे । 'मीरासु 'गाहा, (११३–५) तथा कालाख्या नरकपाला मीरासु - दीर्घचुल्लीषु तथा मुदञ्चकेषु - दीर्घवंशादिकाष्ठाग्रेषु तथा कन्दुषु पचनकेषु लोहीषु च एतेषु त्रिष्वपि मण्डकादिपचनयोग्येष्विवायसकवल्लिविशेषेषु कुम्भीषु च प्रतीतासु व्यवस्थाप्य जीवन्मत्स्यवन्नारकान् वह्नौ पचन्तीति । ' कप्पंति' गाहा, (११३–६) 25 महाकालाख्या नरकपाला नारकान्नानाविधैरुपायैः कदर्थयन्ति तद्यथा - काकिणीमांसकानि श्लक्ष्णमांसखण्डानि कल्पयन्ति, तथा "सीहपुच्छाणी "ति पृष्ठप्रदेशबद्धांस्तांश्छिन्दन्त्युत्कर्त्तयन्ति, ‘“खावेंति”त्ति ये प्राग्मांसाशिनो नारका आसंस्ताँश्च खादयन्ति स्वशरीरमांसानीति गम्यन्त इति । 'हंत्थे' त्यादिगाथा, (११३ - ७) सुगमा । 'कन्नोट्ठ' गाहा, (११४ - १) तथा कर्णोष्ठनाशाकरचरणदशनस्तनपुतोरुबाहूनां छेदन भेदनशातनानि कुर्व्वन्ति, तथा असिपत्रवनं बीभत्सं कृत्वा 30 छायार्थिनस्तत्रागतान्नारकान्नानाविधैः प्रहरणैः " अभिवार्डेति "त्ति अभिपाटयन्ति-विदारयन्ति, के एतत्कुर्व्वन्तीत्याह–“असिपत्तधणू "त्ति असिप्रहरणप्रधानाः पत्रधनुनामानो नरकपाला. एतत्सर्व्वं
SR No.005758
Book TitleAvashyak Niryukti Part 06
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages442
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy