________________
૪૨૦
* भसघारीडेभयन्द्रसूरित टीप्पाड (भाग - ६)
जड्डविधौ 'गच्छे पुण सो अणुन्नाओ' इत्युक्तं तत्किमसौ कारणतोऽनुज्ञातः कारणाभावेऽपि वेत्याशङ्क्याह वृत्तिकार:-'कारणंतरेण त्ति, (४८-७) कारणान्तरेण - ज्ञानाद्यालम्बनेनानुज्ञातो न निष्कारण इत्यर्थः, ननु शरीरजड्डस्य प्रव्राजने को दोष ? इत्याह- ' उड्दुस्सासो गाहा - (४८ - ८) इयं च सूचामात्रत्वासूत्रस्य क्वचित्सोपस्कारतयाऽपि व्याख्यायते - स तावदूर्ध्वोच्छ्वासो भवति निरन्तरं श्वसितीत्यर्थः, 5 तथा भक्तपानाद्यानयने मार्गगमनादौ चापराक्रमः - असमर्थो भवति, ग्लानत्वे च सत्युद्वर्त्तनादिक्रियां कर्त्तुमशक्तो भवति, उत्थाने चङ्क्रमाणादिक्रियासु वा लाघवं न भवति, प्रदीपनकादावग्नेश्च न शीघ्रं पलायितुं शक्नोति, सर्पादिदर्शने वा नापसरणक्षमो भवति अदृष्टावष्टम्भत्वेन च नद्यादिजलेन प्लाव्यते, किञ्च अतीव गाढग्लानत्वे जड्डस्य ग्लानिरुत्पद्यते असमाधिमरणं च स्यादिति गाथार्थः । किंच' सेएण कक्खमाइ गाहा, (४९ - २) कक्षोर्व्वादिप्रदेशाः स्वेदेन तस्य कोथमाप्नुवन्ति तद्भावने 10 च क्षित्यादिनिश्रिताः प्राणिनः प्लाव्यन्ते, किञ्च न भवति गलश्चौर' इत्यतो ज्ञायते ओदनमुण्डा एवैते नापरं किञ्चित्तत्त्वं विदन्तीत्येवंरूपो निन्दितमुण्डादिप्रवादो भवतीत्यादयो जडुप्रव्राजने दोषा इति गाथार्थः । उक्तं भाषाशरीरजड्डयोः स्वरूपं, साम्प्रतमीर्यासमित्यादीनां करणं - विधानं तत्र जड्डुः करणजड्डुस्तस्य स्वरूपमाह - 'ईरियासमिए' गाहा ( ४९ - ४) गतार्था, अस्य किं विधेयमित्याह'एसोऽवी 'त्यादि (४९ - ६) गाथा, सुगमा, नवरं 'जो पुण करणे जड्डो' इत्यादिना तस्य 15 दीक्षितस्य सतो यद्विधेयं तद्वक्ष्यतीति । मम्मणमूकस्य स्वरूपं प्रागेवोक्तं, अस्य च मेधाविनो दीक्षा प्रागेवानुज्ञाता, अथ मेधारहितोऽपि ग्लानादिकारणतो यदा दीक्षितो भवति तदा यद्विधेयं तदाह"मोत्तुं गिलाणकज्जं 'गाहा, (४९ - ९) व्याख्यानं त्वस्या वृत्तिकृतैव कृतमिति न प्रतन्यते, जड्डपारिस्थापनिका समाप्ता ॥ 'पुव्वं गहणं च णंतककट्ठस्स' इति (५७–६) - अत्र काष्ठं नाम येन रजन्यादावकस्मात्कालगत: साधुर्वोढव्यस्तदुच्यते तच्च ग्रहणार्थं पूर्वमेवालोक्यते, क्व पुनरित्याह20 तत्थऽन्नत्थ वे 'ति, (५७ – ९) तत्रेति - वसतावेव किञ्चिदृढवहनकाष्ठं निरीक्ष्यते तदभावेऽन्यत्रापि— शय्यातरगृहादौ निरीक्ष्यते इति, अस्यैव वहनकाष्ठस्य सप्रपञ्चं विधिमाह-' तत्थं कट्ठस्स गहणे ' इत्यादि, (५७–९) आउज्जोअणादिअहिगरणदोस त्ति, (५८ - २) अरघट्टादियोजनादयो दोषा इत्यर्थः । 'अंगुट्ठाइसु बज्जइ'त्ति (६२-४) चरणाङ्गुष्ठद्वयं मीलयित्वा बध्यते, एवं कराङ्गुष्ठद्वयमपीति । 'द्वौ च सार्द्धक्षेत्रे नक्षत्रे' इत्यादि (६४-८) इह वक्ष्यमाणान्युत्तरादीनि नक्षत्राणि पञ्चचत्वारिंशन्मुहूर्त25 भोक्तृणि सार्द्धक्षेत्राण्युच्यन्ते सार्द्धदिनभोक्तृणीतियावद् एवमश्विन्यादीन्यप्येकदिन भोक्तृणि समक्षेत्राण्युच्यन्ते, शतभिषगादीनि त्वर्द्धदिन भोक्तृण्यपार्द्धभोगीण्याख्यायन्ते तेषां च किल चिरन्तनज्योतिष्कग्रन्थेष्वित्थमेव भुक्तिरासीन्न तु यथा साम्प्रतं सर्व्वाण्यप्येकदिनभोगीनीतिभावः । 'कायव्वोत्थ ककारो' इत्यादि, (६८- ९) अस्य स्थापना क ( सामाचार्यां तु विपरीतः कः कार्यः
4
क स्थापना) 'असमत्थो जइ एक्कासणयं एवं सबितियंपि त्ति, ( ७४ -१) एतदुक्तं भवति30 यद्येकासनकमपि कर्तुमसमर्थो भवति तदा "सबिइ अपि "त्ति सद्वितीयमपि भोजनं कुरुते द्व्यासनकमपि करोतीतियावत् । 'पडिस्सए मुहुत्तगं संचिक्खाविज्जइ जाव उवउत्तो 'त्ति, (७६-९)