________________
परिशिष्टम्-१ * ४१३ पूर्वगृहीतजलरहिते भाजने गृहीतं तदा सूत्रोक्तयतनया परिस्थापयति, कूपतडागादिजले तु पूर्ववत् नेदं प्रक्षिप्यते तद्विराधनाप्रसङ्गात्, ननु विविक्तभाजने गृहीतमिश्रजलस्य भवत्वेवं यदा तु पूर्वगृहीताचित्तजलयुक्ते भाजने सचित्तमुदकं गृहीतं भवति तदा को विधिरित्याह-'जं संजयस्से'त्यादि, (२८-७) एतदुक्तं भवति-यदि पूर्वगृहीतारनालादेमध्ये सचित्तजलं कथञ्चिद्गृहीतं भवति तदा यदि स्थण्डिलमाप्नुवतोऽर्वागपि परिणतं तल्लक्ष्यते तदा परिभुज्यते, अथ यावता कालेन स्थण्डिलमवाप्नोति 5 तावता कालेन न परिणमति तदा परिस्थाप्यते हरितन्वादिभावे तु प्रतीक्ष्य शुष्केषु तेषु परित्यज्यते, एतद्व्याख्यानुसारतः सूत्रमपि सुधियाऽभ्यूह्यं, नवरं 'इयरंपि एमेव'त्ति यथा आत्मसमुत्थमाभोगतोऽनाभोगतश्च वर्णितं तथा परसमुत्थमपि वाच्यमित्यर्थः । 'वाघायम्मि व'त्ति व्याघातो नाम कूपदवरकाद्यभावःस्तेनश्वापदादिभयलक्षणः । साम्प्रतं तेजःकायविधिरुच्यते-'आभोएण छारेण देज्जत्ति (२९-८) मुर्मुराग्नि छारेण मिश्रयित्वा कश्चिद् दद्यादित्यर्थः, 'वसहीए अगणिं जोइं 10 वा करेज्जत्ति (२९-९) प्रत्यनीकतया भक्तितो वा अग्नि प्रदीपं वा प्रज्वाल्य वसतावुद्योतं कश्चित्कुर्यादितिभावः । 'पूअलियं वा सइंगालं देज्ज'त्ति (२९-९) विलग्नाङ्गारशकलां रोट्टिकां दद्यादित्यर्थः। सूत्रमनुश्रियते 'अचित्तमीसगा नवरमुण्हपासाणमाइया नेय'त्ति इह किलाग्निः सचित्ताचित्तमिश्रभेदात्रिधा भवति, तत्र सचित्तोऽङ्गारादिः प्रतीत एव,यस्तु पाषाणादिरग्निवर्णतामनापन्न उष्णमात्रतां तु प्राप्तः सोऽचिंत्तोऽभिधीयते, स एव च पाषाणादिः केषुचित्प्रदेशेषु वह्निरूपतया 15 परिणतः केषुचिन्नेति मिश्र उच्यते, शेषं सुगमं, तेज:कायविधिरवसितः । साम्प्रतं वायुपारिस्थापनिकोच्यते 'एवं च वत्थिस्स (दइयस्स-वृ.) पुट्विं धंतस्स एसेव कालविभागो'त्ति, (३०-५) दिइए वा कज्जमित्यनन्तराक्षिप्तत्वेन प्रत्यासत्त्या पूर्वं किल दृतिपवनस्यैव कालविभाग उक्तोऽतोऽतिदिशति बस्तिपवनस्याप्येष एव पूर्वोक्तः कालविभागोऽवसेयः, तत्र बस्तिर्नाम चर्ममयो भस्त्राविशेषः, नन्वेष शूलादिकार्यगृहीतपवनस्य सचित्तादिरूपतायां कालविभाग इत्यवगतं यदा तु नद्याद्यवतरणनिमित्तं 20 · दृतिर्बस्तिर्वा वायो त्वा नद्यादिजले प्रक्षिप्यते तदा सचित्तादिभवने को विभाग इत्याह-'जो पुण ताहे चेव धमित्ता' इत्यादि सुगमं यावत् 'पच्छा संघाडियाउवि 'त्ति (३०-१०) संघाटी नाम बृहत्प्रमाणा प्रच्छादनपटी तया प्रावृत्तः, एतदुक्तं भवति-यदि सकपाटापवरकमधुरवननिगुञ्जादीनि स्थानानि न प्राप्यन्ते न वा तेषु कुतश्चित्कारणाद्गन्तुं पार्यते तदा महत्प्रमाणं कल्पं प्रावृत्त्य तदन्तर्यतनया मुच्यते पवन इति, साम्प्रतमेतद्विषयं सूत्रमनुश्रियते-'उक्कोसाउक्कोसे निद्धे बत्थि'गाहा व्याख्या- 25 उक्कोसे इत्यत्र प्राकृतशैल्या आदिशब्दस्य लोपं कृत्वा निर्देशः, पाठान्तरं वा उक्कोसादुक्कोसे इति, अत्राप्यादिशब्दसम्बन्धिन इकारस्य प्राकृतलक्षणेन लोपं कृत्वा निर्देशः, ततश्चानन्तरातिक्रान्तगाथायां कालः स्निग्धो रुक्षश्च पुनरेकैकस्त्रिधेति प्रतिपादितं, तत्र तत्त्रैविध्यदर्शनार्थमिदमुक्तं-उत्कृष्टादिरिति, आदिशब्दान्मध्यमजघन्यपरिग्रहः, तत्रोत्कृष्टे स्निग्धकाले कियती वेलां यावदचित्तो मिश्रः सचित्तो वा भवतीत्याह-'उक्कोसे निद्धे वत्थिम्मी'त्यादि, उत्कृष्टे स्निग्धे काले बस्तिवात उपलक्षणत्वाद् 30 दृतिवातोऽपि प्रथमपौरुष्यामचित्तो द्वितीयायां मिश्रस्तृतीयायां सचित्तो भवतीति गाथार्थः, शेषं