________________
परिशिष्टम् - १ * 363 प्रवृत्तं भ्रष्टव्रतं दृष्ट्वा अद्रष्टव्योऽयमिति विमृश्य अगीतार्थत्वेन शनैः शनैरवष्वष्कन्ति, ताश्च तथा दृष्ट्वा कुपितो वाचकः पल्लीपतेः कथयित्वा तान् गुप्तौ प्रक्षिप्तवान्, ततस्तदन्वेषणार्थं गुरुवस्तत्र समागताः तं वाचकं व्रतभ्रष्टमपि वन्दित्वा शिष्यका एते अज्ञा इत्याद्युक्त्वा मोचिताः, तथा च भाष्यम्-"पेसविया पच्चंते गीयासइ खेत्तपेहग अगीआ । पेहियखेत्ता पेच्छंति वायगं कत्थ रन्नेत्ति ॥१॥ ओसकते दटुं संकच्छेती उ वायगो कुविओ । 5 पल्लिवइकहणरुंभणगुरुआगमवंदणं सेहा ॥२॥" नन्वेवं पार्श्वस्थादीन् वन्दमानस्य तद्दोषानुज्ञातः संयमव्ययादयो दोषाः प्रसजन्ति, सत्यं, किन्तु संयमव्ययात् तदायो यथा गरीयान् भवति तथा यतितव्यमेव, तथा च भाष्यम्-"कुणइ वयं धणहेउं धणस्स वणिओ उ आगमं नाउं । इय संजमस्सवि वओ तस्सेवट्ठा न दोसाय ॥१॥ गच्छस्स रक्खणट्ठा अणागयं आउवायकुसलेणं । एवं गणाहिवइणा सुहसीलगवेसणा कुज्जा ॥२॥" तद्यथा-'वायाए नमोक्कारो इत्यादि, किं 10 बहुना ?-“वायाए कम्मुणा वा तह चिट्ठइ जह न होइ से भंतुं । पस्सइ जओ अवायं तयभावे दूरओ वज्जे ॥१॥" इति तावद् गुणवज्जितानां वायाए नमोक्कारादिकमुक्तं, यत्र तु गुणः स्वल्पोऽप्यस्ति तत्र किमित्यत्रापि भाष्यम्-“दंसणनाणचरित्तं तवविणयं जत्थ जत्तियं जाणे। जिनपन्नत्तं भत्तीइ पूयए तं तहिं भावं ॥१॥" किमत्र बहुविस्तरेण सकलप्रवचनस्य सारमुच्यते-"ण य किंचि अणुन्नायं पडिसिद्धं वावि जिणवरिंदेहिं । एसा खु तेसि आणा 15 कज्जे सज्जेण होयव्वं ॥१॥ बहुवित्थरमुस्सग्गं बहुयरमववायवित्थरं नाउं । जह जह संजमवुड्डी तह जयसु निज्जरा जहय ॥२॥" इत्यलं विस्तरेण, तदर्थिना तु निशीथत्रयोदशोद्देशकः कल्पश्च निरीक्षणीयः । 'भाण्डखादिकारसादिग्रह' इति (९७-८), भाण्डखादिकारसो नाम जलविशेषः तत्र किल प्रक्षिप्तं सर्वमपि लोहादि जलतामेतीति । 'प्रणमतस्तत्किमिती'त्यादि (१०९-१), यदि नाम पार्श्वस्थादिषु ध्रुवा सावधक्रिया तथापि तत्प्रणामकर्तुः को दोष ? इति 20 आह–'समणुमन्न'त्ति (१०९-२), पार्श्वस्थादीनां प्रणामं कुर्वतस्तत्सावधक्रियानुमोदनं भवतीतिभावः । 'तेभ्य एवैकेन्द्रियेभ्यश्चे'त्यादि (१३३-१), एतदुक्तं भवति-तेभ्य एव नारकेभ्यो ज्ञानदर्शनान्वितेभ्यः तथैकेन्द्रियेभ्यश्च ज्ञानदर्शनविकलेभ्य उद्वृत्ता जीवा मनुष्यभवमप्राप्य तावन्न सिद्ध्यन्ति न च मनुष्योऽपि चारित्रविकलः सिध्यति अतो ज्ञायते चारित्रमन्तरेणासहायज्ञानदर्शनयोरकिञ्चित्करत्वमिति। 'उज्जममाणस्स गुणा' इत्यादि (१३६-१) गाथाया भावार्थ 25 उच्यते-इह प्रष्टुरयमभिप्राय:-साधुस्तावत्स्वशक्त्यपेक्षं तपः करोति कश्चिन्नमस्कारसहितं कश्चित्तु प्रथमपौरुषीमपरस्तु पुरिमार्द्धमित्यादि यावत्षाण्मासिकं, तथा श्रुतमपि कश्चिदष्टप्रवचनमातृप्रमाणमधीतेऽपरस्तु बहु अन्यस्तु बहुतरं यावच्चतुर्दशपूर्वाणि, तदेवं यथा श्रुततपसोः स्वशक्त्यपेक्षं वर्तते तथा संयमेऽपि यावन्तं पृथिव्याधुपमर्द रक्षितुं शक्नोति तावन्तमेव रक्षतु तथा मृषावादेऽपि यत्परिहर्तुं क्षमते तदेव परिहरतु एवं शेषव्रतेष्वपि योज्यं, न चैतद् 30