SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् - १ * ३८१ मल्लगणादेः गुण इति पाठोऽशुद्धो लक्ष्यते निषीथादिभिर्व्यभिचारित्वात् सूत्रस्य-कालिकादेः, एतदुक्तं भवति–वयं भवन्तश्चैकजातिकुलशिल्पकर्मगणवर्तिन इत्यादिवचनरचना आहारादिगृद्धस्य जात्याद्याजीवः, तप:सूत्राभ्यासप्रकटनमाहारादिगृद्धस्यैव तपःसूत्राजीवः, आदिशब्द एतेषामेव बहुप्रकारत्वसूचक इतिगाथार्थः ॥ कल्ककुरुकादीन् गाथया व्याख्यानयन्नाह-'कक्ककुरुगाइ'गाहा (८५-१), कल्ककुरुका काऽभिधीयते ? इत्याह-माया, अत्रैव तात्पर्यार्थमाह-निकृत्या परेषां 5 दम्भनं-वञ्चनमिति यदुक्तं भवति, स्त्रीपुरुषहस्त्यश्वादिलक्षणं तु लक्षणमभिधीयते, "इत्थी विज्जाभिहिआ पुरिसो मंतोत्ति तव्विसेसोऽयं । विज्जा ससाहणा वा साहणरहिओ भवे मंतो ॥१॥" इत्यादिग्रन्थसिद्धा विद्यामन्त्रादयः, आदिशब्दाच्चूर्णयोगौषधादयः प्रकटाः, एतच्चोपलक्षणमात्रं, अतः शेषाण्यपि शरीरोपधिधारणादीन्यकारणे कुर्वश्चरणकुशीलो भवतीति गाथार्थः ॥ उक्तस्त्रिविधः कुशीलः, इदानीं संसक्तस्वरूपमाह-'संसत्तो य' गाहा ‘एमेव य' 10 गाहा (८५-४), संसक्त इदानीमुच्यते, स पुनः संसक्तः कस्माद् भण्यत इति द्वितीयगाथान्ते सम्बन्धः, कस्मादित्याह-यस्मात् मूलगुणविषयिण उत्तरगुणविषयिणश्च ये केचन दोषा गुणाश्च ते तस्मिन् सन्निहिताः सर्वेऽपि प्राप्यन्त इति कथं सन्निहिता ? इत्याह-एवमेव, क्व ? यथा इति दृष्टान्तमाह-"गोभत्तलंदए चेव"त्ति चेवशब्दो यथाशब्दार्थो, यथा गोभक्तकलन्दके यत्किञ्चिदुच्छिष्टमनुच्छिष्टं वा तत्सर्वं क्षिप्यते, एवमेव संसक्तेऽपि ये केचन मूलोत्तरगुणदोषास्ते 15 सर्वे प्राप्यन्ते, एतदुक्तं भवति–यथा गोमहिष्यादीनां खादनकलन्दके उच्छिष्टमनुच्छिष्टं वा भक्तखलकर्पासिकादि सर्वं प्रक्षिप्तं प्राप्यते, तथा मूलोत्तरगुणविषयिणो ये केचन दोषा गुणाश्च ते सर्वेऽपि तत्र प्राप्यन्ते तस्मात्संसक्तोऽसावभिधीयते इति गाथाद्वयार्थः ॥ पुनः प्रकारान्तरेण तत्स्वरूपमाह-'राय'गाहा ‘एवमेव'गाहा (८५-६), तथा राजविदूषको राज्ञः केलिपात्रं ततश्चैव बहुरूपी भवति, नटो वा यथा बहूनि रूपाणि करोति, "अहवा विमेलगो उ"त्ति 20 अनुस्वारोऽलाक्षणिकः अथवापि यथा एलक:-ऊरणको हरिद्रारागादिना बहुवर्णो भवति हरिद्रया उपलिप्तः पीतो भवति, पुनः प्रक्षाल्य गुलिकया रञ्जितः कृष्णो भवति, पुनः प्रक्षाल्य हिङ्गुलकेन रञ्जितो रक्तो भवति एवं प्रक्षाल्य २ पुन: २ वस्त्वन्तरेणोपरज्यमानो बहुवर्णो भवति एवमेवायमपि यादृशेन शुद्धेनाशुद्धेन वाऽपि सह संमिलति तत्र तादृश एव भवति, धार्मिकमध्ये मिलितो धार्मिकमात्मानं दर्शयति इतरेषु त्वितररूपं तस्मात्संसक्तो भण्यते इति 25 गाथाद्वयार्थः ॥ स च द्विविधः सामान्येन भवतीत्याह—'सो दुविगप्पो'गाहा (८६-२), सुगमा संक्लिष्टसंसक्तस्य स्वरूपमाह-'पंचासव'गाहा (८६-३), आश्रवति-आदत्ते जीवः कर्म यैस्ते आश्रवाः हिंसानृतस्तैन्याब्रह्मपरिग्रहलक्षणाः पञ्च तत्प्रवृत्तः-तदासेवनरतो यस्त्रिषु ऋद्धिरससातगौरवेषु प्रतिबद्धः "इत्थिगिहिसंकिलिट्ठो"त्ति स्त्रीसंक्लिष्टो गृहिसंक्लिष्टश्च, तत्र-स्त्रीप्रतिषेवी स्त्रीसंक्लिष्टः, गृहिसम्बन्धिनां तु द्विपदचतुष्पदधनधान्यादीनां तप्तिकरणप्रवृत्तो गृहिसंक्लिष्टः, एवम्भूतः संसक्तो- 30
SR No.005757
Book TitleAvashyak Niryukti Part 05
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages418
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy