SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् - १ * ३८५ परिशिष्टम् - १ श्रीमन्मलधारगच्छीयश्रीमद्धेमचन्द्रसूरिरचितम् हरिभद्रीयावश्यकवृत्तिटीप्पणकम् अधुना चतुर्विंशतिस्तव आरभ्यते 'चतुर्विंशतिस्तवस्य निक्षेपो भवति नामनिष्पन्न' इति (३-३), ननु किं तन्नाम 5 यस्य निक्षेपः करिष्यत इत्याह-'अन्यस्याश्रुतत्वादिति, ननु यदि नामैवात्र पृष्टव्यं तत्किमिति क इत्येनन पुंस्त्वनिर्देशः कृतो वृत्तिकृता ?, सत्यं, किन्तु को नामनिष्पन्नो निक्षेप इति निक्षेपापेक्षयेत्थं निर्देशो वस्तुतः पुनर्नामैवात्र पृष्टव्यमित्यदोषः । ‘परमाणवस्त्वप्रदेशा एवे'ति (१३-८), ननु यदि सामान्यविशेषरूपतया प्रदेशत्वमप्रदेशत्वं च गीयते तहि परमाणोरप्युभयता किं न स्याद् येनोच्यते परमाणवस्त्वप्रदेशा इति, न हि जैनानां किञ्चिद्वस्तु सामान्यविशेष- 10 रूपतामतिक्रामति, सत्यं, विद्यते परमाणुषु तिर्यक्सामान्यं न पुनः स्वावयवव्यापितत्वलक्षणमूर्वसामान्यं, निरवयवत्वादेव तेषामित्यदोषः ॥ 'उदइयखओवसमिय' गाहा ‘उवसमसेढी एक्को' गाहा (१७-२), नारकाणामौदयिको भावो–नरकगत्यादिः, क्षायोपशमिकास्त्विन्द्रियसम्पन्नतादिः पारिणामिकस्तु जीवत्वादिरित्येवं भावत्रयनिष्पन्नो नरकगतावेको भङ्गः, एवं तिर्यग्नरामरगतिष्वप्येकैको वाच्यः, ततो गतिचतुष्टयेऽपि चत्वारो भङ्गा भवन्ति, तथाऽभिहितस्वरूपे 15 भावत्रये क्षायिकभावप्रक्षेपे भावचतुष्टयनिष्पन्न एको भङ्गो भवति, गतिचतुष्टयसम्बन्धात् चत्वारो भङ्गाः सम्पद्यन्ते, क्षायिकभावसम्पन्ना हि क्षायिकसम्यग्दृष्टयः सर्वास्वपि गतिषु लभ्यन्ते, अथ क्षायिकमपहाय तत्स्थाने औपशमिकः प्रक्षिप्यते, तद्योगेनापि गतिचतुष्टये चत्वारो भङ्गा भवन्ति, प्रथममेव सम्यक्त्वमासादयतां हि गतिचतुष्टये प्राप्यते औपशमिको भावः, एवं सर्वेऽपि द्वादशः, तथा दर्शनसप्तकं क्षपयित्वा य उपशमश्रेणी विधत्ते तस्यौदयिकौपशमिकक्षायिकक्षायोपशमिक- 20 पारिणामिकभावपञ्चकनिष्पन्न एको भङ्गो लभ्यते, केवलिनोऽप्यौदयिकक्षायिकपारिणामिकभावत्रयनिष्पन्न एक एव, क्षायोपशमिकस्त्वस्य नास्ति 'अतीन्द्रिया: केवलिन' इतिवचनात्, सिद्धस्यापि क्षायिकपारिणामिकभावद्वयनिष्पन्न एक एव, एते सर्वेऽपि त्रयः पूर्वोक्ता द्वादश सर्वे पिण्डिताः पञ्चदश अविरुद्धसान्निपातिकभेदा भवन्ति, सान्निपातिकभेदा हि किलान्यथा प्ररूपणायां षड्विंशतिर्भवन्ति, तद्यथा-औदयिकादिभावपञ्चकस्य द्विकसंयोगे दश, त्रिकसंयोगेऽपि 25 दशैव, चतुष्कसंयोगे पञ्च, पञ्चकसंयोगे त्वेकः, सर्वेऽपि षड्विंशतिः, एते च विरुद्धा उच्यन्ते, केषाञ्चित् क्वचिदुपलभ्यमानत्वेन प्ररूपणामात्रकत्वात्, प्रस्तुतास्तु पञ्चदशोक्तन्यायेन लभ्यमान* પ્રથમ અંક પાના નંબર અને બીજો અંક પંક્તિ નંબર સૂચવે છે.
SR No.005757
Book TitleAvashyak Niryukti Part 05
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages418
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy