________________
परिशिष्टम् - १ * 3८१ सङ्घातसमयोऽन्तरे प्राप्यते, अयमत्र भावार्थ:-य औदारिकशरीरी वैक्रियलब्धिमानारचितवैक्रियशरीरः परिपूर्णं मनुष्यवैक्रियशरीरस्थितिकालं यावत्सङ्घातपरिसाटौ विधाय म्रियतेऽविग्रहेण च सुरालये समुत्पद्य प्रथमसमये वैक्रियसङ्घातं करोति द्वितीयादिसमयेषु तु संघातपरिशाटयै तत्सम्बन्धिन उभयस्स चान्तरे स एवानन्तरोक्तः संघातसमयो भवतीति, ननु यद्येवं “चिरवेउव्वियमयस्से"त्यत्र चिरग्रहणमपार्थकम्, इह हि मनुष्यादिषु यश्चिरं स्तोकं वा कालं वैक्रियसङ्घातपरिशाटौ कृत्वाऽविग्रहेण 5 दिवि समुत्पद्यते तेनैव प्रयोजनं, किं चिरशब्दविशेषणेन ?, सत्यं, किन्तु प्रथमसमयेऽपि मरणनिषेधार्थमित्थमुक्तं, यदिवाऽनन्तरं वैक्रियसङ्घातान्तरं भावयता सप्रयोजनत्वाद् द्वितीयादिसमयेष्वाकस्मिकमसमाप्तवैक्रियस्यापि मरणमुक्तं अत्र त्वसमाप्तवैक्रियस्यापि मरणनिदर्शने न किञ्चित्प्रयोजनमिति ख्यापनार्थं चिरग्रहणेन परिपूर्णान्तर्मोहूर्तिकमनुष्यादिवैक्रियस्थितिकालानुज्ञामपि कृतवानाचार्य इत्यदोषः । 'साडस्संतोमुहुत्तो'त्ति, एकदा वैक्रियसर्वशाटं कृत्वा पुनरपि तत्सर्वशाटं 10 कुर्वतोऽन्तर्मुहूर्तं जघन्यमन्तरं भवति, कथमिति चेद् ? उच्यते-कश्चिदौदारिकशरीरी वैक्रियलब्धिमान् कस्मिंश्चित्प्रयोजने वैक्रियशरीरमारभ्यान्तर्मुहूर्तं तथैवावस्थितिं विधाय चरमसमये तत्सर्वशाटं कृत्वा पुनरप्यौदारिकमाश्रयति, ततस्तत्रान्तर्मुहूर्तं स्थित्वा पुनरप्युत्पन्ने प्रयोजने वैक्रियं निवर्तयत्यन्तर्मुहूर्त च तत्र स्थिति कृत्वा पुनरप्यौदारिकमागच्छंश्चरमसमये वैक्रियसर्वपरिशाटं करोति, एवं सति शाटद्वयस्यान्तरे समयोनमन्तर्मुहूर्त्तद्वयं भवति, तेन च द्वयेनापि लघुत्वादेकमेव पुष्टतरमन्तर्मुहूर्त 15 निष्पद्यते अतो युज्यते जघन्यशाटान्तरमन्तर्मुहूर्त्तमिति, सङ्घातादित्रयस्याप्युत्कृष्टमन्तरमाह-'तिण्हवि तरुकालमुक्कोसं ति, यदा कश्चिज्जीवो वैक्रियशरीरस्य सङ्घातादित्रयं कृत्वा वनस्पतिषूत्पन्नः तत्र चानन्तकालमतिवाह्य तत उद्धृतः पुनरपि क्वचिद्वैक्रियशरीरमासाद्य तत्संघातादित्रयं करोति तदा तत्सम्बन्धिनः संघातपरिशाटोभयलक्षणस्य त्रयस्याप्यन्तरे स एव वनस्पतिकालो भवतीतिगाथार्थः।
ततश्चात्र व्युत्पत्तिभेदमात्रमाश्रीयत' इति (२७५-९), एतदुक्तं भवति-पूर्वं हि "जीवमजीवे 20 पाओगियं त्वि"त्यादि ब्रुवता अजीवे-कुसुम्भादौ करणमजीवकरणमिति सप्तमीतत्पुरुषः सूचितः, इह तु जीवप्रयोगात्करणं जीवप्रयोगकरणमिति पञ्चमीतत्पुरुष इत्येतावन्मात्रेण भेदः । 'तदिह व्यञ्जनशब्देन क्षेत्राभिव्यञ्जकत्वा'दित्यादि (२७६-८), व्यज्यते-घटाकाशं पटाकाशमित्यादिव्यपदेशैविशेषणद्वारेण प्रकटीक्रियते क्षेत्रममीभिरिति व्यञ्जनं पुद्गलाः घटपटशकटलकुटादयः 'तत्सम्बन्धादिति व्यञ्जनसम्बन्धात् पर्यायमापन्नं व्यञ्जनपर्यायापन्नं, एतदुक्तं भवति–यदैकस्मिन्नभोदेशे 25 व्यवस्थितो रक्तो घटः प्रयोगान्तरेण शुक्लीक्रियते तदा पूर्वं तन्नभो रक्तघटसम्बद्धमासीत् पश्चात्तदेव शुक्लघटसम्बद्धमभूद्, एवं च सति स शुक्लगुणलक्षणः पर्यायो वस्तुवृत्त्या तस्यैव नभस उत्पन्नः, एवमन्यस्यापि पुद्गलराशेर्यः प्रतिक्षणं पर्यायसमूहः समुत्पद्यते तमापन्नं नभो यदा विवक्ष्यते तदा नभसोऽप्यस्ति करणं, तथापि पर्यायस्यैव करणं न व्योम्न इति चेदित्याह-'पर्यायो द्रव्यादनन्य'इति