SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ૩૮૮ મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૪) कृत्वा यत् परभवगमनमित्याह क्षुल्लकभवग्रहणलक्षणमायुर्विधृत्य, कथम्भूतं ?-न्यूनं, कै: ?तैस्त्रिभिः समयैरिति गम्यते, ये किमित्याह-द्वौ विग्रहसमयावेकश्च संघातनासमयः सर्वेऽपि त्रयः, अयमत्र भावार्थो-जघन्यान्तरकालस्य प्रस्तुतत्वात्प्राग्भवात् कृतविग्रहोत्पन्नस्य जन्तोरिह ग्रहणं, अन्यथा हि मध्यमः कालः स्यात्, ततश्च कश्चिज्जीवः क्वचित्पूर्वभवेऽसत्कल्पनया विंशतिसमयप्रमाणक्षुल्लकभवग्रहणस्वरूपमायुर्बद्ध्वा यदा समयद्वयविग्रहेण वनस्पतिषु उत्पद्यते तृतीयसमये च संघातं करोति ततः शेषसप्तदशसमयान् जीवित्वाऽन्यत्र क्वचिदविग्रहेणोत्पद्य संघातं करोति तदा त एव सप्तदश समयाः संघातद्वयान्तरं भवतीति गाथाद्वयार्थः । इदानीमुत्कृष्टसंघातान्तरं भावयति—'उक्कोसं तित्तीसं' गाहा (२६८-२), 'काऊण पुव्वकोर्डि' गाहा (२६८-३), व्याख्या-सागरोपमाणीत्यस्य व्यवहितः सम्बन्धः, ततश्च त्रयस्त्रिंशत्सागरोपमाणि समयाधिक-. 10 पूर्वकोट्यभ्यधिकान्यौदारिकसंघातान्तरमुत्कृष्टं भवतीति गम्यते, कदा पुनरयं संघातान्तरकालो लभ्यत इत्याह-स:-उक्तलक्षणः काल इह तृतीयसमये संघातयतः-सर्व संघातं कुर्वतो लभ्यत इति द्वितीयगाथायां संटङ्कः, किं कृत्वा ? इत्याह-कुतश्चित्पूर्वभवादविग्रहेण इह तावन्मनुष्यभवे समागत्य प्रथमसमये संघातं कृत्वा पूर्वकोटि विधृत्य-पूर्वकोटिप्रमाणमिहायुष्कं परिपाल्य ततश्च ज्येष्ठमायुष्कं त्रयस्त्रिंशत्सागरोपमलक्षणं सुरेष्वनुत्तरविमानेषु भुक्त्वा च्युतः समयद्वयं विग्रहे विधाय 15 तृतीयसमये संघातं विधत्ते, एवं च सति समयोना पूर्वकोटिः प्रथमा त्रयस्त्रिंशत्सागरोपमाणि देवभवसम्बन्धीनि पुनरपीहागतस्य विग्रहसत्कसमयद्वयं च संघातद्वयस्यान्तरं भवति, अत्र च विग्रहसत्कसमयद्वयमध्यादेकः प्राक्तनपूर्वकोट्यां प्रक्षिप्यते, अतः त्रयस्त्रिंशत्सागरोपमाणि समयाधिकपूर्वकोट्यधिकानि संघातान्तरं भवतीति गाथाद्वयार्थः । 'इदं पुनः सर्वसाटान्तरं सर्व (जघन्यं) क्षुल्लकभवमानं, कथम् ?, इहानन्तरातीतभवचरमसमये' इत्यादि (२६८-४) 20 अत्राह-ननु कश्चिदौदारिकशरीरी सर्वसाटं कृत्वा वनस्पतिष्वागत्येत्यादिभावना नातीव घटयमियर्ति, यतः 'परभवपढगे साडो' इति न्यायाद् वनस्पत्यायुष एव मध्यात् साटसमयस्यापगमो युक्तः, तन्मध्याच्च तस्मिन्नपनीते समयहीनं क्षुल्लक भवग्रहणं जघन्यं शाटान्तरं प्राप्नोति, तथोत्कृष्टसाटान्तरभावनायामपि यदुच्यते कश्चित्संयतमनुष्य औदारिकसर्वसाटं कृत्वा इत्यादि, तदपि न युक्तिसङ्गतं, यतस्तत्राप्युक्तन्यायेन देवभवायुष एव मध्यात्साटसमयः पतितुमर्हति, एवं च सति 25 समयोनपूर्वकोट्यधिकानि त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टं शाटान्तरं स्यादिति, अत्रोच्यते, अत्र जघन्यशायन्तरपक्षे वृत्तिकारो भवदभिप्रेतमेव समयोनक्षुल्लकभवग्रहणमानं शायन्तरं गुरवस्तु व्याचक्षत इत्यादिनाऽभ्युपगमयिष्यति, केवलमुत्कृष्टशाटान्तरपक्षे वृत्तिकृताऽपि न किञ्चिदुक्तं परं, किन्तु जघन्यशाटान्तरानुसारत, एवोत्कृष्टपक्षेऽपि भवदुक्तमेव शान्तरं वृत्तिकारस्याप्यभिमतमिति लक्ष्यते,
SR No.005756
Book TitleAvashyak Niryukti Part 04
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages418
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy