________________
પરિશિષ્ટ-૧ ( ૩૫૫ 'यत्सूत्रोपदिष्ट'मित्यादि (१३-१ यत्तु), यद्यपि सूत्रे 'नामं आवकहिय'(अनु० ११) मित्याद्यविशेषेणोक्तं तथाऽप्यङ्गा वङ्गा मगधा कलिङ्गा इत्यादिप्रतिनियत-जनपदाद्याश्रितस्यैव यावत्कथिकत्वं विज्ञेयं नापरस्य कस्यचिद्. इन्द्रादिनाम्नो जीवत्यपि गोपालदारकादौ निवृत्तिदर्शनादिति भावार्थः । ज्ञशरीरमेव द्रव्यमङ्गल' मित्यादि (१५-२), अत्र च पक्षद्वयेऽपि कर्मधारय एव केवलं व्याकरणप्रक्रियाकृतो यदि परं कश्चिद्विशेषः, 'तत्रार्थाभिधानप्रत्ययास्तुल्यनामधेया' इत्यादि (१७-५), अत्र अर्थ:-पृथुबुजोदराकारो बाह्यो घटलक्षण:
अभिधानं तु-तत्प्रतिपादको ध्वनिविशेषः प्रत्ययस्तु-घटग्राहकं ज्ञानमित्येतानि च त्रीण्यपि तुल्यनामधेयानितुल्यशब्दवाच्यानीत्यर्थः, तथाहि-यथा बाह्यः पृथुबुध्नोदराकार: पदार्थो घटशब्दाभिधेयस्तथा तद्विषयप्रत्ययाभिधाने अपि, यतः केनचिद् घटे अन्तर्विकल्पिते अभिहिते चापरः कश्चिदन्यं पृच्छतिकिमस्य चेतसि किं चासौ वक्ति ?, स प्रत्युत्तरयति-घटोऽस्य चेतसि घटं च वक्ति, न चैतत्प्रत्युत्तरमर्थाभिधानप्रत्ययानामेकत्वममन्तरेण युज्यत इति भावार्थः, एवं घटवदन्यत्रापीन्द्रवक़्यादावायोज्यं, ततः स्थितमेतत्-वह्निज्ञानमपि वह्रिरित्युच्यत इति, नन्वेवं सति वह्निग्राहकज्ञानस्यैव वह्नित्वं न तज्ज्ञानवतः? इत्याह–'अग्निरिति च यज्ज्ञान'मित्यादि (१७-६), अग्निज्ञानाव्यतिरिक्तो ज्ञाताऽप्यग्निरिति भावः, ज्ञानतद्वतोर्व्यतिरेके दोषमाह-'अन्यथे'त्यादि (१७-७) सुगम, नन्वग्ने स्वरादिराकारो भवति न च तद्ग्राहकज्ञानस्यायमस्ति तत्कथमग्निज्ञानस्य तदव्यतिरिक्तस्य ज्ञानिनो वाऽग्नित्वम् ? इत्याशक्याह-'न चानाकार'मित्यादि (१८-१) सुगमम्, पुनरपि ज्ञानज्ञानिनोर्भेदे दोषमाह-'बन्धाद्यभावश्चे'त्यादि (१८१), यदुक्तं दहनपचनप्रकाशनाद्यर्थक्रियाऽप्रसाधकत्वादिति, तत्राह-'न चानलः सर्व एवे'त्यादि सुबोधं, 'भभामउंदमद्दल' (२१-३) गाहा सुगमा, नवरं 'भम्भा' इति पृथुलमुखढक्काविशेषः, 'मुकुन्दमद्दलौ' मुरजविशेषावेव, केवलमेकतः सङ्कीर्णोऽन्यत्र तु विस्तीर्णो मुकुन्द इत्यभिधीयते मर्दलस्तूभयतोऽपि सम इति, कडंबा-करटिका तलिमा-तिउल्लिका शेषं प्रतीतमिति । 'अथवाऽभिनिबुध्यते तदि'त्यादि (२११२), ननु कर्तारमन्तरेण कर्म न भवति, अभिनिबुध्यते तदित्यत्र तु मतिज्ञानं कास्ति न कर्ता, तत्कथमिदं घटते ? इत्याह-'तस्य स्वसंविदितरूपत्वादिति (२२-१), स्वयमेव ज्ञानं नीलादिग्राहकत्वेनात्मानं व्यवच्छिनत्ति, न बाह्यो ज्ञानपरिच्छेदक: कर्ताऽन्वेषणीय इति भावः, नन्वोदनं पचति देवदत्त इत्यादिषु भेद एव कर्तृकर्मव्यवहारो दृष्टः, अत्र तु तदेव ज्ञानं परिच्छेदकं तदेव च परिच्छेद्यमिति भेदाभावात्कथं तद्व्यवहार: ? इत्याशक्याह-भेदोपचारादिति' (२२-१), तद्धि प्रदीपवत्प्रकाशस्वभावमेवोत्पद्यत इत्यसन्नपि कर्तृकर्मभावेन भेद उपचर्यत इति भावः ।। आह—'तिवग्गसुत्तत्थगहियपेयाले'त्यादि (२७-७), इदमुक्तं भवति-"भरनित्थरणसमत्था तिवग्गसुत्तत्थगहिअपेयाला । उभओलोगफलवई विणयसमुत्था हवइ बुद्धी ।।९४३।।" इत्यस्यां वक्ष्यमाणगाथायां त्रिवर्गसूत्रार्थगृहीतविचारा वैनयिकी बुद्धिर्भवतीति वक्ष्यति, धर्मार्थकामप्रतिपादकशास्त्रनिश्रितेतियावत्, तत्कथमौत्पत्तिक्यादिबुद्धिचतुष्टयस्याप्यश्रुतनिश्रितत्वमिति पूर्वपक्षभावार्थः, समाधानपक्षे त्वयं भावार्थ:-यद्यप्यौत्पत्तिक्यादिबुद्धीनां श्रुतनिश्रितत्वं साक्षान्नोक्तं तथाऽप्यवग्रहहापायधारणानां श्रुतनिश्रितत्वमागमे प्रतिपादितमेव, अतो वैनयिक्या बुद्धेः सम्बन्धिनोऽवग्रहादयः