________________
પરિશિષ્ટ-૧ श्रीमन्मलधारगच्छीयश्रीमद्धेमचन्द्रसूरिसूत्रितं हरिभद्रीयावश्यकवृत्तिटीप्पणकम् जगत्त्रयमतिक्रम्य, स्थिता यस्य पदत्रयी । विष्णोरिव तमानम्य, श्रीमदाद्यजिनेश्वरम् ॥१।। शेषानपि नमस्कृत्य, जिनानजितपूर्वकान् । श्रीमतो वर्द्धमानान्तान्, मुक्तिशर्मविधायिनः ॥२॥ समुपासितगुरुजनतः समधिगतं किञ्चिदात्मसंस्मृतये ।
सधै पादावश्यकविषयं टिप्पनमहं वच्मि ॥३॥ इह हि शिष्टाः क्वचिदभीष्टे वस्तुनि प्रवर्त्तमाना विघ्नविनायकोपशान्तये अभीष्टदेवतादिनमस्कारपुरस्सरं प्रेक्षावतां प्रवृत्तये सम्बन्धाभिधेयप्रयोजनकथनपूर्वकं च प्रवर्त्तन्ते, अयमपि भगवान् वृत्तिकार: शिष्टसङ्घाताग्रणीरित्यने नापि तत्समाचार: परिपालनीयो, नमस्कारोचितश्च देवताविशेषस्त्रिधाअभीष्टाभिमताधिकृतभेदात्, तत्राभियुक्तैः सर्वैरेव मुमुक्षुभिरिज्यते-पूज्यत इत्यभीष्टा सा चासौ देवता चाभीष्टदेवतामहावीरादिस्तीर्थकरविशेषः सर्वे वा तीर्थकृत इति, एवमन्यत्रापि विशेषणसमासः कार्यः, तथा अभिमन्यते-श्रेयःप्रवृत्तैर्विघ्नव्रातविघातकत्वेन निश्चीयत इत्यभिमता-शासनदेवतादिः, तथा अधिक्रियतेप्रस्तुतशास्त्रप्रणेतृत्वेन सम्बध्यत इत्यधिकृता-गणधरादि:, इत्येवं त्रिविधस्यापि देवताविशेषस्य पूर्वार्द्धन स्तुतिविधायकं पश्चार्टेन तु सम्बन्धादिप्रतिपादकं श्लोकमाह-'प्रणिपत्ये' त्यादि (१-१२), व्याख्या'प्रणिपत्य' नमस्कृत्य, कम् ? इत्याह-वीरं' विदारयत्यष्टप्रकारं कर्म विराजते वा सबाह्याभ्यन्तरेण तपसा 'सर वीर विक्रान्ता' वित्यस्य वा वीरयति-कर्मशत्रून् प्रति विक्रमत इति वीरः, तदुक्तम्-"विदारयति यत्कम्म, तपसा च विराजते। तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः ॥१॥" तमित्थम्भूतं, तमेव विशिनष्टिजिना:-क्षीणोपशान्तमोहनीयकणिश्छद्मस्थवीतरागास्तेषां वराः केवलिनस्तेषामष्टमहाप्रातिहायैश्वर्ययोगादिन्द्रस्तं, तदनेनाभीष्टदेवतानमस्कार: कृतो भवति, अभिमतदेवतां नमस्कुर्वन्नाह-श्रुतस्याधिष्ठात्री देवता श्रुतदेवता. चशब्दस्यहोनरत्र च गम्यमानत्वात्तां च प्रणिपत्येति योगः, अधिकृतदेवतानमस्कारमाहगृणन्ति जीवादितत्त्वमिति गुरवः-गौतमादयस्तान्, तथा साधयन्ति सदनुष्ठानविशेषैः परमपदमार्गमिति साधवस्तांश्च. प्रणिपत्येतीहापि सम्बध्यते, अत्र साधुग्रहणे-नोपाध्यायादयोऽपि सङ्ग्रहीताः, तेषामपि * પ્રથમ અક પાન નંબર અને બીજો અંક પંક્તિ નંબર સૂચવે છે.