________________
.
विजयपाल-विरचितं अर्जुनः-(स्वगतम्)
पुष्पायुधेन गुरुणा विहितोपदेशा
लोलं शरव्यमिव हन्त ! मनो मदीयम् । लोलाविकुश्चितविलोचनचापलेखा
___मुक्तेन विध्यति कटाक्षशरेण कान्ता ॥६॥ पाञ्चाली-(क) गुणाणुमाणेण आयारोवि मणहरो इमरस । मागधी-(पाञ्चाली सानुरागां विज्ञाय किञ्चित्स्मित्वा) (ख) सहि ! अग्गदो गम्मदु। पाञ्चाली-(सलज्जम्) (ग) सहि ! जेण मह जणयपइण्णामहण्णवो गुरुय.
गुणगणेण पयंडभुअदंडतांडेण उत्तिन्नो तस्स साहीणो अयं जणो। मागधी-(घ) ता गिन्हेसु नि यकरकमलेन सयंवरमालियं । निवेसेहि झत्ति इमस्स कंठकंदलंमि ।
( अन्ये राजानः पाञ्चाली द्विजसन्निधौ स्थितां दृष्ट्वा वैलक्ष्येण श्वासमुखतां भजन्ते ।) द्रुपदः- अहो ! गुणानुरागिणी वत्सा ।
(पाञ्चाली अर्जुनस्य कण्ठे स्वयंवरमालां निवेशयति ।) अर्जुनः-(स्वगतम् )
स्वीकृतेऽस्मिन्डशाप्यङ्गे ताराभृङ्गावलीहया ।
पुनरुक्तां निधत्तेऽसौ स्वयंवरणमालिकाम् ॥७॥ कृष्णः-निवेशयन्ती कण्ठेऽस्य स्वयंवरणमालिकाम् ।
इयं पूजयतीवासी वीरोसस्य वेदिका ॥८॥
(आकाशे देवा दुन्दुभिवादनपूर्वकं कुसुमवृष्टि कुर्वन्ति ।) कृष्णः-राधावेधगुणेनैव क्रोता कृष्णा किरीटिना ।
अयं स्वयंवरोऽमुष्याश्चक्रे रागपरीक्षणम् ॥९॥ (द्रुपदं प्रति) कि ते भूयः प्रियमुपकरोमि । (क) गुणानुमानेन आकारोऽपि मनोहरोऽस्य । (ख) सखि | अग्रतो गम्यताम् । (ग) सखि ! येन मम जनकप्रतिज्ञामहार्णवो गुरुकगुणगणेन प्रचण्डुभुजदण्डतरण्डेन उत्तीर्णस्तस्य
स्वाधीनोऽयं जनः । (घ) तद् गृहाण निजकरकमलेन स्वयंवरमालिकाम् । निवेशय झगिति अस्य कण्ठकन्दले।