SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ विजयपाल-विरचितं अपि च अयं पञ्चालभूपालधापं चण्डीपतेरिदम् । कृतधन्विमनो राधाराधावेधमुदीक्षते ॥१५॥ ___ (सस्मरण सोन्मादं च ।) स्मृतायां नामसाम्येन राधायां राधयानया । .. आनन्दखेदसम्भेदमासादयति मे मनः ॥१६॥ अपि चमन्मथोन्माददायिन्या मनस्विन्या दिवानिशम् । राधाया अपि दुर्भदं राधाया मन्महे मनः ॥१७॥ (द्रुपदवासुदेवौ यथोचितं सम्भावयतः ।) दुपदः- भगवन् ! मिलितमखिलमपि भूपाल मण्डलम् । तदत्रभवन्तो भवन्त एव प्रत्येकं वीरानाहूय राधावेधं कारयत । कृष्णः एवं कुर्मः । (इति राधास्तम्भसविधमुपसत्य उच्च स्वरम् । ) भो भो राधावेधमण्डपाभ्युपगताः सर्वेऽपि भूपतयः शृण्वन्तु भवन्तो द्रुपदनरपतेः प्रतिज्ञाम् । यतःस्तम्भः सोऽयं गिरिरिव गुरुदक्षिणांवमेकं वामावर्त विकटमितरच्चक्रमावतंतेऽत्र । आस्ते लोलस्तदुपरि तिमिस्तस्य वामाक्षितारा लक्ष्य प्रेक्ष्यं तदपि निपुणं तैलपूणे कटाहे ॥१८॥ अपि चचापं पुरो दुरधिरोपमिदं पुरारे रारोप्य यो भुजबलेन भिनत्ति राधाम् । खपान्तराभ्युपगता जगतां जयश्रीः । पञ्चालजा खलु भविष्यति तस्य पत्नी ॥१९॥ (इत्यभिवाय दुर्योभनाभिमुख मुलं दृशं च निधाय) राजन्नेतौ सुरकरिकराकारभाजी भुजौ ते त्वं मेदिन्यां विकटकटकक्ष्मापकोटेः किरीटम् । मानस्तोमः प्रभवति भवन्मानसे मुक्तमान स्तत्वं दुर्योधन ! जयधनं चापमारोपयैतत् ॥२०॥
SR No.005715
Book TitleDropadi Swayamvaram
Original Sutra AuthorN/A
AuthorJinvijay, Shantiprasad M Pandya
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1993
Total Pages90
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy