________________
[८४]
શ્રી અંતરિક્ષ श्रीअंतरिक्षपार्श्वनाथस्तोत्रम् ॥
उपजातिवृत्तम् । श्रीपार्श्वनाथं भुवि सुप्रसिद्धं, वैदर्भदेशे सुविशालकीर्तिम् । अस्पृष्टभूमि सुयथार्थनामं, श्रीअंतरिक्षं शिरसा नमामि ॥ १ ॥ विभूषितं श्रीपूरमध्यभागं, पानालगर्भगृहसंस्थितं यः । अनेकभक्तार्पितभक्तिपुष्पं, श्रीअंतरिक्षं शिरसा नमामि ॥ २ ॥ लङ्कापतेर्बाहुविभूषित यत् , बिम्बं जिनेन्द्रस्य सुभूतकाले । चमत्कृतिर्यस्य जने प्रसिद्ध, श्रीअंतरिक्षं शिरसा नमामि ॥ ३ ॥ वाराणसी यस्य सुजन्मभूमि- माकुले सूर्य इव प्रदीपः । पूज्यं मनोवाञ्छितपूरकं तं, श्रीअंतरिक्षं शिरसा नमामि ॥ ४ ॥ फणीन्द्रविस्फारितमातपत्रं, सुशोभित सुंदरश्यामवर्णम् । आकृष्टभक्तालिमुग्वारविन्दं, श्रीअंतरिक्षं शिरसा नमामि ॥ ५ ॥ सत्योपदेष्टा कमठस्य पार्यो, मन्त्रामृतेनोद्धरित: फणीन्द्रः । सुरेन्द्रसंपूजितदेवदेवं, श्रीअंतरिक्ष शिरसा नमामि ।। ६ ।। धर्मोपदेष्टा भुवि भाविकानां तीर्थंकरः संघविधायको यः । धर्मस्य संस्थापकधर्ममूर्ति, श्रीअंतरिक्षं शिरसा नमामि ॥ ७ ॥ भक्तस्य वाञ्छा भुवि भाग्यलक्ष्मी-विधायको यः परमार्थसिद्धेः । मोक्षस्य दाता परमं पवित्रं, श्रीअंतरिक्षं शिरसा नमामि ॥ ८ ॥
. -बालेन्दु श्रीअन्तरिक्षपार्श्वनाथ जिनेश्वर. स्तवन
(राग-जब तुम ही चले परदेश ) श्री अन्तरिक्षप्रभु पास, पूरो हम आश स्वामी सुखकारा, सेवकका करो उद्धारा