SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ पौष्टिक दण्डको यथा नन्दीश्वररुचककुण्डेलेषुकारमानुषोत्तरवर्षधरवक्षस्कारवैताढ्यमेरुप्रतिष्ठा ऋषभवर्धमानचन्द्राननवारिषेणाः सर्वतीर्थंकराः पुष्टिं कुर्वन्तु स्वाहा । भुवनपतिव्यन्तरज्योतिष्व वैमानिकाः सम्यग्दृष्टिःसुराः सायुधा सपरिवाराः पुष्टिं कुर्वन्तु स्वाहा । ॐ चमरबलिधारणभूतानन्द वेणुदेववेणुदारिहरिकान्तहरिसह अग्निशिखाग्निमानवपुण्यवसिष्ठजलकान्तजलप्रभअमितगतिमितवाहनवेलम्बप्रभञ्जनघोषमहाघोषकालमहाकालरुपप्रतिरुपापुण्यभद्रमाणिभद्रभीममहाभीमकिनरकिंपुरुषसत्पुरुषमहापुरुष अहिकाय महाकाय ऋषिगीतरतिगीतयश सन्निहितसन्मानधातृविधातृऋषिऋषिपालईश्वरमहेश्वरसुवक्षविशालहास्यहास्य| रतिश्वेतमहाश्वेतपतङ्गपतगरतिचन्द्रसूर्यशक्रेशनसनत्कुमारमाहेन्द्रब्रह्मलान्तक( शुक्रारणा) शुकसहस्त्रारणाच्युतनामानश्चतुष्पष्टिसुरासुरेन्द्राः सायुधाः सवाहनाः सपरिवाराः पुष्टिं कुर्वन्तु स्वाहा। इन्द्राग्नियमनिर्ऋतिवरुणवायुकुबेरेशाननागब्रह्मरुपा दिक्पाला: सायुधाः सवाहनाः सपरिच्छदाः पुष्टिं कुर्वन्तु स्वाहा । ॐ सूर्यचन्द्राङ्गारकबुधबृहस्पतिशुक्रशनैश्चरराहुकेतुरुपा ग्रहाः सक्षेत्रपाला: पुष्टिं कुर्वन्तु पुष्टिं कुर्वन्तु स्वाहा । ॐ रोहिणी १६ षोडशविद्यादेव्यः सायुधाः सवाहनाः सपरिजना : पुष्टि कुर्वन्तु स्वाहा । ॐ श्री ही धृतिकीर्तिबुद्धिलक्ष्मीवर्षधरदेव्यः पुष्टिं कुर्वन्तु स्वाहा । ॐ गणेशदेवताः पुरदेवताः पुष्टिं कुर्वन्तु स्वाहा । अस्मिश्च मण्डले जनपदस्य पुष्टिर्भवतु जनपदाध्यक्षाणां पुष्टिर्भवतु, राज्ञां पुष्टिर्भवतु, राज्यसन्निवेशानां पुष्टिर्भवतु, पुरस्य पुष्टिर्भवतु, पुराध्यक्षाणां पु० ग्रामाध्यक्षाणां पु० सर्वाश्रमाणां पु० सर्वप्रकृतीनां पु० पौरलोकस्य पु० पार्षद्यलोकस्य पु० जैनलोकस्य पु० अत्र च गृहे गृहाध्यक्षस्य पुत्रभ्रातृस्वजनसम्बन्धिकलत्रमित्रसहितस्य पु० एतत्समीहितकार्यस्य पु० तथा दासभृत्यसेवककिंकरद्विपदचतुष्पदबलवाहनानां पु० भाण्डागारकोष्ठागाराणां पुष्टिरस्तु ॥ "नमः समस्तजगतां पुष्टिपालनहेतवे । विज्ञानज्ञानसामस्त्यदेशकायादिमाऽर्हते ॥१॥ येनादौ सकला सृष्टिविज्ञानज्ञानमापिता । स देवः श्रीयुगादीशः पुष्टिं तुष्टिं करोत्विह ॥२॥" संघयात्रा 808 ___ यत्र चेदानीमायतननिवासे तुष्टिपुरीऋद्धिवृद्धिमाङ्गल्योत्सवविद्यालक्ष्मीप्रमोदवाञ्छितसिद्धयः सन्तु शान्तिरस्तु पुष्टिरस्तु વિધિ ऋद्धिरस्तु वृद्धिरस्तु यच्छ्रेयस्तदस्तु "प्रवर्धतां श्रीः कुशलं सदास्तु प्रसन्नतामञ्चतु देववर्ग: । आनन्दलक्ष्मीगुरुकीर्तिसौख्यसमाधियुक्तोऽस्तु समस्तसंघः ॥१॥ सर्वमङ्गल० ॥२॥" Dog Dog Dog Dog Dog Dog Dog Dog Dog Dog dog Dog Jan Education human For Personal Private Use Only
SR No.005669
Book TitleSangh Yatra Vidhi
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherPurnanand Prakashan
Publication Year2004
Total Pages44
LanguageGujarati
ClassificationBook_Gujarati, Ritual, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy