________________
Jain Education International
zooxxwxwxwwwsexxx
For Personal & Private Use Only
૧૮
र्षिः । भविकमनांसि निरंतरमचोरयत्स्वीयविमलगुणैः ॥ ४६६ ॥ गृहीत्वानशनं प्रान्ते स्मरन् पंचनमस्कृति । श्रीसर्वार्थविमानेऽगा- ४ देवोऽभूच्छर्मभाजनं ॥ ४६७ ॥ जिनेन्द्रवचनं श्रुत्वा रौहिणेय इवान्वहं । स्तैन्यं त्रिधापि सन्त्याज्यं जिनधर्मरतैर्नरैः ॥ ४६८॥ || कासद्र(कासेंद्र)गच्छचूडारत्ननिभो देवचन्द्रगुरुराजः । तच्छिष्यदेवमूर्तिर्जिनपदतरुपीठकृतवसतिः॥ ४६९॥ चक्रे तेन कयासौ बहुलरसा स्मयकरी बुधजनानां । नन्दतु तावद्रुचिरा यावच्छशिमेरुसूर्यजलनिघयः ॥ ४७० ॥ ॥ इति श्रीकासद्गच्छे (कासेंद्रगच्छे) श्रीदेवचंद्रसूरिशिष्यउपाध्यायश्रीदेवमूर्तिरचिता रौहिणेयकथा समाप्ता ॥
मार्गानुसारिणां पंचत्रिंशद्गुणाः न्यायसंपन्नविभवः शिष्टाचारमशंसकः । कुलशीलसमैस्साद्धे कृतोद्वाहोन्यगोत्रनैः ॥१॥ पापभीरुः प्रसिद्धं च देशाचार | समाचरन् । अवर्णवादी न कापि राजादिषु विशेषतः ॥ २॥ अनतिव्यक्तगुप्ते च स्थानेषु प्रतिवेश्मिके । अनेकनिर्गमद्वारविवर्जित- || निकेतनः ॥३॥ कृतसंगः सदाचारैर्मातापित्रोश्च पूजकः । त्यजन्नुपप्लुतस्थानमप्रवृत्तिश्च गर्हिते ॥ ४ ॥ व्ययमायोचितं कुर्वन् घेष. || वित्तानुसारतः । अष्टभिर्घागुणैर्युक्तः शृण्वानो धर्ममन्वहम् ॥ ५॥ अजीर्णे भोजनत्यागी काले भोक्ता च सात्म्यतः । अन्योन्या- IX प्रतिबंधेन त्रिवर्गमपि साधयन् ॥ ६॥ यथावदतिथौ साधौ दाने च प्रतिपत्तिकृत् । सदानभिनिविष्टश्च पक्षपाती गुणेषु च ॥७॥ |६|| अदेशाकालयोश्चयो त्यजन् जानन् बलाबलं । व्रतस्थज्ञानवृद्धानां पूजकः पोष्यपोषकः ॥८॥ दीर्घदशी विशेषज्ञः कृतज्ञो लोकवल्लभः। सलज्जः सदयः सौम्यः परोपंकृतिकर्मठः ॥ ९॥ अंतरंगारिषड्वर्गपरिहारपरायणः । वशीकृतेन्द्रियग्रामो गृहिधर्माय कल्पते ॥१०॥
kkkkkkkkk
રોહિણેય સની સંસ્કૃત હસ્તપ્રતનું પ્રાંતિમ પૃષ્ટ, પ્રત ૪. સી-૫૧ ૩૩. ગીતાઈ ગંગા જ્ઞાન ભંડાર, રામદાવાદ
www.jainelibrary.org