________________
Adel
नाभिमतमुक्तिमार्गः १
"सम्मत्तणाणजुत्तं चारित्रं रागदोसपरिहीणं ।
मोक्खस्य हवदि मग्गो भव्वाणं लद्धबुद्धीणं ॥"" अपि च समयपाहुडे
"जीवावीसदहरणं सम्मत्तं तेसिमधिगमो णाणं । रागादिपरिहरणं चरणं एसो दु मोक्खपहो ॥3 "रण वि एस मोक्खमग्गो पासंडीरिणहिमयारिण लिंगाणि ।
दसणणाणचरित्तारिण मोक्खमग्गं जिणा बेंति ॥"4 अत्र मुनीनां गेहिनां वा द्रव्यलिङ्गः शरीराश्रितत्वान्नैवाभिमतो मोक्षमार्गत्वेन किन्तु सम्यग्दर्शनज्ञानचारित्राण्येव मुक्तिमार्गोऽभिव्यजितः । नियमपाहुडे च "मग्गो मोक्खडवानो" इत्यनेनापि रत्नत्रयमेव मोक्षस्योपायभूतो मुक्तिमार्गो निगदितः श्रीमकुन्दकुन्दमहर्षिभिः ।
___ निष्कलङ्कमुक्तिपथप्रस्थायिनाऽऽचार्यामितगतिनाऽपि सम्यक्त्वादित्रिरत्नसमवेतस्य विगलितरागस्य विसृष्टविकारस्यात्मन एव मुक्तिमार्गत्वं प्रस्थापितं योगसारप्राभृते
"सम्यक्त्वज्ञानचारित्रस्वभावः परमार्थतः।
प्रात्मा रागविनिर्मुक्तो मुक्तिमार्गो विनिर्मलः ॥" ... किञ्चाचार्यामृतचन्द्रोऽपि लिखितवानेव पुरुषार्थसिद्ध्य पाये
"सम्यक्त्त्वबोधचारित्रलक्षणो मोक्षमार्ग इत्येषः ।
मुख्योपचाररूपः प्रापयति परं पदं पुरुषम् ।।"" अन्यच्चाप्तपरीक्षायां विद्यानन्दिस्वामिना प्रतिपादितमेव
"मार्गो मोक्षस्य वै सम्यग्दर्शनादित्रयात्मकः ।
विशेषेण प्रपत्तव्यो नान्यथा तद्विरोधतः॥" सर्वत्रेदं वैशिष्टयौं वर्तते यत्सम्यग्दर्शनज्ञानचारित्राणि त्रीणि समुदितान्येव मोक्षमार्गः न व्यस्तानि; तथैव सम्भवात् बाधकप्रमाणाभावादार्षप्रणीतागमसमर्थितत्त्वाच्चेति । तद्यथा विद्यानन्द्यनुसारेण त्विदम् -
“सम्यग्दर्शनादित्रयात्मको मोक्षमार्गः साक्षान्मोक्षमार्गत्वात् । यस्तु न सम्यग्दर्शनादित्रयात्मकः स न साक्षान्मोक्षमार्गः यथा ज्ञानमात्रादि, साक्षान्मोक्षमार्गश्च विवादाध्यासितः 2. पञ्चास्तिकायसंग्रहः, गाथा 106, 3. समयसारः, गाथा 155, 4. तत्रैव गाथा 410, 5. नियमसारः, गाथा 2, 6. योगसारप्रामृतम् 1/42, 7. पुरुषार्थसिद्धय पायः, श्लोक: 222 8. प्राप्तपरीक्षा, कारिका 118 ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org