________________
२४८
અધ્યાત્મ ઉપનિષદ્ - ભાગ પહેલો, ૩-ક્રિયાયોગશુદ્ધિ અધિકાર १७८ यथा छाद्मस्थिके ज्ञानकर्मणी सहकृ(ग)त्वरे । क्षायिक अपि विज्ञेये, तथैव मतिशालिभिः ।।३६ ।। १७९ सम्प्राप्तकेवलज्ञाना, अपि यज्जिनपुङ्गवाः । क्रिया योगनिरोधाख्या, कृत्वा सिद्ध्यन्ति नान्यथा ।।३७ ।।
१८० तेन ये क्रियया मुक्ता, ज्ञानमात्राभिमानिनः । ते भ्रष्टा ज्ञानकर्मभ्यां नास्तिको नात्र संशयः ।।३८ ।।
१८१ ज्ञानोत्पत्तिं समुद्भाव्य कामादीनन्यदृष्टितः । अपहृवानैलॊकेभ्यो, नास्तिकैर्वञ्चितं जगत् ।।३९ ।।
१८२ ज्ञानस्य' परिपाकाछि', क्रियाऽसङ्गत्वमङ्गति । न तु प्रयाति पार्थक्य, चन्दनादिव सौरभम् ।।४० ।। १८३ प्रीतिभक्तिवचोऽसङ्गरनुष्ठानं चतुर्विधम् । यत्परैर्योगिभिर्गीतं तदित्थं युज्यतेऽखिलम् ।।४१ ।।
१८४ ज्ञाने चैव क्रियायां च, युगपद्विहितादरः । द्रव्यभावविशुद्धः सन्, प्रयात्येवं परं पदम् ।।४२ ।। ..
१८५ क्रियाज्ञानसंयोगविश्रान्तचित्ता, समुद्भूतनिर्बाधचारित्रवृत्ताः,
__नयोन्मेषनिर्णीतनिःशेषभावास्तपः शक्तिलब्धप्रसिद्धप्रभावाः ।।४३ ।। १८६ भयक्रोधमायामदाज्ञाननिद्रा-प्रमादोज्झिताः शुद्धमुद्रा मुनीन्द्राः ।
यशःश्रीसमालिङ्गिता वादिदन्तिस्मयोच्छेदहर्यक्षतुल्या जयन्ति ।।४४ । ।
।। इति तृतीयोऽधिकारः ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org