SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ પરિશિષ્ટ - ૧૨ મૂળ શ્લોક તથા શ્લોકાર્થ ।। अथ प्रथमोऽधिकारः ।। १ ऐन्द्रवृन्दनतं नत्वा, वीतरागं स्वयम्भुवम् । अध्यात्मोपनिषन्नामा, ग्रन्थोऽस्माभिर्विधीयते ।।१।। २ आत्मानमधिकृत्य स्याद्यः पञ्चाचारचारिमा । शब्दयोगार्थनिपुणास्तदध्यात्म प्रचक्षते ।।२।। ३ रूढ्यर्थनिपुणास्त्वाहुष्टिात्तं मैत्र्यादिवासितम् । अध्यात्म निर्मलं बाह्यव्यवहारोपबृंहितम् ।।३।। ४ एवम्भूतनये ज्ञेयः, प्रथमोऽर्थोऽत्र कोविदैः । यथायथं द्वितीयोऽर्थो, व्यवहारर्जुसूत्रयोः" ।।४।। ५ गलन्नयकृतभ्रान्तिर्यः स्याद्विश्रान्तिसम्मुखः । स्याद्वादविशदालोकः', स एवाध्यात्मभाजनम् ।।५।। ६ मनोवत्सो युक्तिगवीं मध्यस्थस्यानुधावति । तामाकर्षति पुच्छेन तुच्छाग्रहमनःकपिः ।।६।। ७ अनर्थायैव नार्थाय, जातिप्रायोटा युक्तयः । हस्ती हन्तीति वचने, प्राप्ताप्राप्तविकल्पवत् ।।७।। ८ ज्ञायेरन् हेतुवादेन पदार्था यद्यतीन्द्रियाः । कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निष्टायः ।।८।। ९ आगमष्टोपपत्तिष्टा, सम्पूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणामानां, सद्भावप्रतिपत्तये ।।९।। १० अन्तरां केवलज्ञानं छद्मस्थाः खल्वचक्षुषः । हस्तस्पर्शसमं शास्त्रज्ञानं तद्व्यवहारकृत् ।।१०।। ११ शुद्धोञ्छाद्यपि शास्त्राज्ञानिरपेक्षस्य नो हितम् । भौतहन्तुर्यथा' तस्य पदस्पर्शनिषेधनम् ।।११।। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005561
Book TitleAdhyatma Upnishad Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorKirtiyashsuri
PublisherRaj Saubhag Satsang Mandal Sayla
Publication Year2012
Total Pages300
LanguageGujarati
ClassificationBook_Gujarati & Spiritual
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy