SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ न्यायावतार घटमौलिसुवर्णेषु बुद्धिर्भेदावभासिनी । संविन्निष्ठा हि भावानां स्थितिः काऽत्र विरुद्धता प्रतीतेस्तु फलं नान्यत् प्रमाणं न ततः परम् । अताद्रूप्येऽपि योग्यत्वान्नियतार्थस्य वेदकम् ।। प्रत्यक्षपरिच्छेदः । । ३. अनुमानपरिच्छेदः । पूर्वमेव परोक्षस्य विषयः प्रतिपादितः । प्रमाणफलसद्भावो ज्ञेयः प्रत्यक्षवहुधैः परोक्षं द्विविधं प्राहुर्लिङ्गशब्दसमुद्भवम् । लैङ्गिकात् प्रत्यभिज्ञादि भिन्नमन्ये प्रचक्षते परोपदेशजं श्रौतं मतिं शेषं जगुर्जिनाः । परोक्षं प्रत्यभिज्ञादि त्रिधा श्रौतं न युक्तिमत् अन्यथेहादिकं सर्वं श्रौतमेवं प्रसज्यते । यच्चोक्तं नागमापेक्षं मानं तज्जाड्यजृम्भितम् लिङ्गाल्लिङ्गिनि यज्ज्ञानमनुमानं तदेकधा । प्रत्येति हि यथा वादी प्रतिवाद्यपि तत् तथा उपचारेण चेत् तत् स्यादनवस्था प्रसज्यते । अन्यस्यासाधनादाह लक्षणे हेतु-साध्ययोः 'अन्यथाऽनुपपन्नत्वं यत्र तत्र त्रयेण किम् । नान्यथाऽनुपपन्नत्वं यत्र तत्र त्रयेण किम्' कार्यकारणसद्भावस्तादात्म्यं चेत् प्रतीयते। प्रत्यक्षपूर्वकात् तर्कात् कथं नानुपपन्नता व्यतिरेकाऽनुपपत्तिश्चेदन्वयनिबन्धनम् । कथं सत्त्वं विना तेन क्षणिकत्वप्रसाधकम् विनाप्यन्वयमात्मादौ प्राणादिः साधनं यदा । तदा स्यान्नान्वयापेक्षा हेतोः साध्यस्य साधने Jain Education International For Personal & Private Use Only ।।३५।। ।।३६।। ।।३७।। ।।३८ ।। ।।३९।। ।। ४० ।। ।।४१।। ।। ४२ ।। ।।४३।। ।।४४।। ३५८ ।।४५।। ।।४६ ।। OF www.jainelibrary.org
SR No.005549
Book TitleNyayavatara
Original Sutra AuthorN/A
AuthorSaumyangratnavijay, Yashratnavijay
PublisherJingun Aradhak Trust
Publication Year2011
Total Pages408
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy