________________
३५६७
||१०||
||११||
||१२||
||१३||
||१४||
न्यायावतार आवृतिप्रक्षयाज्ज्ञानं सार्वज्ञ्यमुपजायते । सदहेतुकमस्तीह सदैव क्ष्मादितत्त्ववत् आहारासक्तिचैतन्यं जन्मादौ मध्यवत्तथा । अन्त्यसामग्र्यवद्धेतुः संपूर्णः कार्यकृत्सदा ज्योतिः साक्षात्कृतिः कश्चित् संपूर्णस्तत्त्ववेदने ।
।। सामान्यलक्षणपरिच्छेदः ।।
२. प्रत्यक्षपरिच्छेदः। ज्ञात्रपेक्षं प्रमेयस्य द्वैविध्यं न तु वास्तवम् दूरासन्नादिभेदेन प्रतिभासं भिनत्ति यत् । तत् प्रत्यक्षं परोक्षं तु ततोऽन्यद् वस्तु कीर्तितम् तन्निमितं द्विधा मानं न त्रिधा नैकधा ततः । सादृश्यं चेत् प्रमेयं स्यात् वैलक्षण्यं न किं तथा अर्थापत्तेर्न मानत्वं नियमेन विना कृतम् | प्रमाणपञ्चकाभावेऽभावोऽभावेन गम्यते न, नास्तीति यतो ज्ञानं नाध्यक्षाद्भिन्नगोचरम् । अभावोऽपि च नैवास्ति प्रमेयो वस्तुनः पृथक प्रत्यक्षं विशदं ज्ञानं त्रिधेन्द्रियमनिन्द्रियम् । योगजं चेति वैशद्यमिदन्त्वेनावभासनम् जीवांशात् कर्मनिर्मुक्तादिन्द्रियाण्यधितिष्ठतः । जातमिन्द्रियजं ज्ञानं विनेन्द्रियमनिन्द्रियम् स्मृत्यूहादिकमित्येके प्रातिभं च तथाऽपरे । स्वप्नविज्ञानमित्यन्ये खसंवेदनमेव नः मनःसंज्ञस्य जीवस्य ज्ञानावृत्तिशमक्षयौ । यतश्चित्रौ ततो ज्ञानयोगपद्यं न दुष्यति जिनस्यांशेषु सर्वेषु कर्मणः प्रक्षयेऽक्रमम् । ज्ञानदर्शनमन्येषां न तथेत्यागमावधः
||१५||
||१६||
||१७||
||१८।।
||१९||
||२०||
||२१||
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org