________________
न्यायावतार
सकलप्रतिभासस्य भ्रान्तत्वासिद्धितः स्फुटम् ।
प्रमाणं स्वान्यनिश्चायि, द्वयसिद्धौ प्रसिध्यति ॥ ७ ॥
हरिभद्री - सकलेत्यादि, एवं मन्यते - योऽपि समस्तसंवेदनस्य भ्रान्ततां प्रतिजानीते, तेनापि तत्साधकस्याभ्रान्तताऽभ्युपगन्तव्या । ततश्च सकलप्रतिभासस्य समस्तसंवेदनस्य भ्रान्तत्वासिद्धितो विपर्यस्तत्वानिष्पत्तेः यत् स्फुटं स्वान्यनिश्चायि सुनिश्चिततया स्वपरप्रकाशकं तत्प्रमाणमिति संबन्धः । तच्च द्वयसिद्धौ स्वरूपार्थलक्षणयुग्मनिष्पत्तौ निष्पद्यते ।। ७ ।।
अथ स्वार्थानुमानं प्रतिपाद्याल्पवक्तव्यत्वात्शाब्दलक्षणमाह -
दृष्टेष्टाव्याहताद्वाक्यात्परमार्थाभिधायिनः । तत्त्वग्राहितयोत्पन्नं, मानं शाब्दं प्रकीर्तितम् ।। ८ ।
हारिभद्री - दृष्टेष्टेत्यादि, शाब्दमिति लक्ष्यम्, दृष्टेष्टेत्यादि लक्षणम् । दृष्टेन प्रमाणावलोकितेन इष्टः प्रतिपिपादयिषितोऽव्याहतोऽनिराकृतोऽर्थादर्थो यस्मिन्वाक्ये तत्तथा, प्रमाणनिश्चितार्थाबाधितम् । तस्मात्परमोऽकृत्रिमः पुरुषोपयोगी शक्यानुष्ठानो वाऽर्थो वाच्यस्तमभिधातुं शीलं यस्य तत्तथा । ततस्तत्त्वग्राहितयोत्पन्नं प्रकृतवाक्यप्रतिपादितार्थादानशीलतया लब्धसत्ताकं यन्मानं तच्छाब्दं प्रकीर्तितमुपवर्णितम् ।
तत्र दृष्टेष्टेत्यनेन कुतीर्थिकवचसां लौकिकविप्रतारकोक्तीनां च शाब्दतां निरस्यति । वाक्यादित्यनेन तु वाक्यस्यैव शाब्दत्वम्, न पदस्य, तस्य प्रतिपिपादयिषितार्थस्यानभिधानात् । परमार्थाभिधायिन इत्यमुनाऽशक्यानुष्ठानोपदेशस्य पुरुषानुपयोगिनश्च तत्तिरस्कुरुते । तत्त्वग्राहितयोत्पन्नमित्यमुना त्वेवंभूतादपि श्रोतृदोषाद् विपरीतार्थग्राहकस्य शाब्दत्वं निराचष्टे । मानमित्यनेन त्वन्तर्गतप्रोपसर्गार्थेन शाब्दे परस्याप्रामाण्यबुद्धिं वारयति । शाब्दं द्विधा, लौकिकं च शास्त्रजं च । तत्रेदं द्वयोरपि सामान्यं लक्षणम् ।। ८ ।।
अधुना यादृशात् शास्त्रात्तदुत्पद्यते तदाह
Jain Education International
३४२ NO
-
आप्तोपज्ञमनुल्लङ्घ्यमदृष्टेष्टविरोधकम् ।
तत्त्वोपदेशकृत्सार्वं, शास्त्रं कापथघट्टनम् ।। ९ ।।
हारिभद्री - आप्तेत्यादि, शास्ति शिक्षयति जीवादितत्त्वं शिष्यतेऽनेनेति वा शास्त्रम् । तत्किम्भूतमिति तद्विशेषणान्याह । आप्तः प्रक्षीणाशेषरागादिदोषगणस्तेनोपज्ञमादावुपलब्धमनेनापौरुषेयापोहमाह, पुरुषव्यापाराभावे वचनाभावात् । अत एवोल्लङ्घ्यते प्राबल्येन गम्यतेऽभिभूयतेऽनेनेत्युल्लङ्घ्यं ततोऽन्यदनुल्लङ्घ्यम् ।
For Personal & Private Use Only
www.jainelibrary.org