________________
३४० 10
न्यायावतार
प्रसिद्धानि प्रमाणानि, व्यवहारश्च तत्कृतः ।
प्रमाणलक्षणस्योक्ती, ज्ञायते न प्रयोजनम् ।। २ ।। हारिभद्री - प्रसिद्धानीत्यादि, प्रसिद्धानि प्ररूढानि अधुनाऽसाध्यानीत्यर्थः । प्रमाणानि प्रत्यक्षादीनि, परोक्षगतभेदापेक्षया बहुवचनम् । आसतां तावत्प्रमाणानि व्यवहारोऽपि तत्कृतः, चशब्दोऽपिशब्दार्थः ।
अथ परप्रमाणेत्यादि - प्रमाणलक्षणस्योक्तौ पररूपव्यावर्त्तनक्षमासाधारणधर्मकथनरूपायां ज्ञायते निर्णीयतेऽस्माभिर्न प्रयोजनं तत्फलम्, अतिसूक्ष्मत्वात्तावकाभिसंधेरिति काक्वा प्रश्नयत्युल्लुण्ठयति च ।। २ ।। अथाचार्यो गृहितस्तावकीनोऽभिप्रायः इति तत्साफल्यमावेदयति -
प्रसिद्धानां प्रमाणानां, लक्षणोक्तौ प्रयोजनम् ।
तद्व्यामोहनिवृत्तिः, स्याद्व्यामूढमनसामिह ।। ३ ।। हारिभद्री - प्रसिद्धानामित्यादि, प्रतिप्राणि संप्रसिद्धानि प्रमाणानि । तथापि केचिद् विततमोहावष्टब्धान्तकरणास्तत्स्वरूपमनुभवन्तोऽपि न लक्षयन्ति । ततो यथावस्थितप्रमाणलक्षणाविर्भावेन व्यामोहं तेषामपसारयाम इति नः चेतः।।
तदिदं प्रयोजनम् - 'तद्व्यामोहनिवृत्तिः' तस्मिन् प्रमाणलक्षणे व्यामोहो विपरीतता 'स्यात्' भवेत् । केषामित्याह - व्यामूढं विपरीतं ग्रस्तं मनो येषां ते, इहेति लोके ।। ३ ।। अथ प्रत्यक्षलक्षणं लक्षयति -
अपरोक्षतयार्थस्य, ग्राहकं ज्ञानमीदृशम् ।
प्रत्यक्षमितरज्ज्ञेयं, परोक्षं ग्रहणेक्षया ।। ४ ।। हारिभद्री - अपरोक्षतयेत्यादि, अत्र प्रत्यक्षमिति लक्ष्यनिर्देशः, अपरोक्षतयार्थस्य ग्राहकं ज्ञानमिति लक्षणनिर्देशः परोक्षोऽक्षगोचरातीतस्ततोऽन्योऽपरोक्षस्तद्भावस्तत्ता तया । अर्यते इत्यवगम्यते इत्यर्थः, अर्थ्यतेऽभिलष्यते दाहपाकाद्यर्थक्रियार्थमिति वा । तस्य ग्राहकं व्यवसायात्मकतया परिच्छेदकं यज्ज्ञानं तदीदृशमीदृगेव प्रत्यक्षम्। __तत्र ज्ञानात् सांख्याभिमतम् - श्रोत्रादिवृत्तिः प्रत्यक्षमित्यपास्तम् । अर्थस्य ग्राहकमित्यनेन ग्रहणेक्षयेति सापेक्षत्वात् ये बहिरपि भावग्रहणप्रवणं प्रत्यक्षं न मन्यन्ते तान्निरस्यति । अपरोक्षतयेत्यनेन तु परोक्षलक्षणसंकीर्णतां तिरस्कुरुते । ईदृशमित्यनेन पूर्वोक्तविशेषणसंमीलनेन परपरिकल्पितस्य प्रत्यक्षतां प्रतिक्षिपति।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org