________________
નવતત્વ પ્રકરણ | ગાથા-૧
अथ सप्तैव पदार्था इति कुतः, पुण्यपापयोरप्यन्यत्र श्रवणात्, इति चेत्, तयोर्बन्ध एवान्तर्भावेन भेदेनानुपादानात्, यद्येवमाश्रवादयोऽपि पञ्च तर्हि जीवाजीवाभ्यां न भिद्यन्ते, तथा हि-आश्रवो मिथ्यादर्शनादिपरिणामो द्रव्यभावविवेचनेन जीवाजीवयोः परिणाम एव, बन्धस्तु कर्मपुद्गलजीवसंयोगः, सोऽपि निरन्तरोत्पाद उभयस्वभाव एव, संवरोऽपि कर्मपुद्गलादानच्छेदभवहेतुक्रियात्यागलक्षणो जीवाजीवात्मक एव । निर्जरापि निर्जर्यनिर्जरकोभयस्वभावैव । मोक्षोऽपि सर्वनिर्जरारूपः सुतरां तथा । आत्मनिष्ठफलजनकत्वे चाश्रवादयः सन्त्वात्मधर्मा एव । तथा च जीवा अजीवाश्चेत्युभे एव तत्त्वे इति चेत्, सत्यम् । मोक्षार्थिनः खल्वत्र तत्त्वज्ञाने प्रवर्तयितव्याः, तत्र च हेयस्य संसारस्याश्रवबन्धलक्षणं कारणद्वयम्, उपादेयस्य च मोक्षस्य च संवरनिर्जरालक्षणम्, मोक्षश्च परमप्रयोजनतयाऽवश्यवक्तव्य इति मोक्षार्थितयाऽवश्यवक्तव्यानां सप्तानामपि तत्त्वानामुपादानस्य न्याय्यत्वात्, न च कारणजिज्ञासया एकमेव वक्तव्यमन्यथा बहून्यपि वक्तव्यानि स्युरित्यपि कुचोद्यमाशङ्कनीयम्, एककारणे ज्ञाते कारणान्तरजिज्ञासाया औत्सर्गिकत्वात्, न च परतोऽपि तदनिवृत्तिर्मध्यमरुचेस्तावतैव चरितार्थत्वादिति दिक् ।।४।। __ननु कथं सप्तैव तत्त्वानि, पुण्य-पापयोरप्यधिकयोः सत्त्वादिति चेत् ? न, बन्ध एव तयोरन्तर्भावमभिप्रेत्य भेदेनानभिधानात्, हन्त तर्हि जीवाऽजीवास्तत्त्वमेतावदेव वाच्यं स्याद्, आश्रवादीनामपि पञ्चानां जीवाऽजीवयोरभिन्नत्वात्, तथाहि-आश्रवो मिथ्यादर्शनादिरूपः परिणामो जीवस्य, स च क आत्मानं पुद्गलांश्च विहाय ? बन्धश्चात्मप्रदेशसंश्लिष्टकर्मपुद्गलात्मकः, संवरोऽप्यात्मन एवाश्रवनिरोधलक्षणो देशसर्वनिवृत्तिपरिणामः, निर्जरा तु पार्थक्यापन्नजीवपुद्गलदशैव मोक्षोऽपि समस्तकर्मरहित आत्मैवेति ? सत्यम्, इदमित्थमेव, किन्त्विदं शास्त्रं मुमुक्षुशिष्यप्रवृत्तये, सा च मुक्तिसंसारयोः कारणयोर्भेदनाभिधानं बिना न स्यादिति, आश्रवो बन्धश्चेति द्वयं मुख्यं संसारकारणम्, संवरो निर्जरा चेति द्वयं मुख्यं मोक्षकारणमुपात्तम्, यत्तु मुख्यं प्रयोजनं मोक्षो यदर्था सर्वा प्रवृत्तिः, स कथं न प्रदेश्य॑तेति युक्तं पञ्चानामप्युपादानम् । अथ हेयोपादेययोरेककारणाभिधानेनैव चरितार्थत्वे किं द्वयाभिधानेनेति चेत्, न, एककारणे ज्ञाते कारणान्तरजिज्ञासाया औत्सर्गिकत्वात्, कारणद्वयज्ञाने च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org