SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ॥सूरिपुरन्दर श्रीहरिभद्रसूरिस्तुतयः ॥ सूर्यप्रकाश्यं क्व नु मण्डलं दिवः, खद्योतकः क्वास्य विभासनोद्यमी। क्व धीशगम्यं हरिभद्रसद्वचः क्वाऽधीरहं तस्य विभासनोद्यतः ॥ -श्रीजिनेश्वरसूरिकृता अष्टकटीका परहिताधाननिबिडनिबुद्धिभगवान् सुगृहीतनामधेयः श्रीहरिभद्रसूरिः ॥ - श्रीमुनिचन्द्रसूरिकृता उपदेशपदवृत्तिः नित्यं श्रीहरिभद्रसूरिगुरवो जीयासुरत्यद्भूतज्ञानश्रीसमलङ्कृताः सुविशदाचारप्रभाभासुराः । येषां वाक्प्रपया प्रसन्नतरया शीलाम्बुसंपूर्णया भव्यस्येह न कस्य कस्य विदधे चेतोमलक्षालनम् ॥ -श्रीप्रभानन्दसूरिकृता जम्बूद्वीपसङ्ग्रहणीवृत्तिः उड्यम्मि मिहिरि भदं सुदिट्ठिणो होइ मग्गदसणओ। तह हरिभद्दायरियम्मि भद्दायरियम्मि उदयमिए ॥ - श्रीजिनदत्तसूरिकृतगणधरसार्धशतकम् श्री सिद्धसेन-हरिभद्रमुखाः प्रसिद्धास्ते सूरयो मयि भवन्तु कृतप्रसादाः । येषां विमृश्य सततं विविधान् निबन्धान् शास्त्रं चिकीर्षति तनुप्रतिभोऽपि मादृक् ॥ - श्रीवादिदेवसूरिकृतस्याद्वादरत्नाकरः हारिभद्रं वचः क्वेदमतिगम्भीरपेशलम् । क्व चाहं जडधीरेष स्वल्पशास्त्रकृतश्रमः ॥ __- श्रीमलयगिरिसूरिकृता धर्मसङ्ग्रहणीवृत्तिः www.jainelibrary.org Jan Education into For Personal & Private Use Only
SR No.005536
Book TitleAnekantjaipataka Part 05
Original Sutra AuthorN/A
AuthorBhavyasundarvijay, Yashratnavijay
PublisherJingun Aradhak Trust
Publication Year2013
Total Pages350
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy