SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ४४ धर्मसङ्ग्रहणी परिशिष्ट - २ देंतस्स हिरन्नादि अब्भासा देहमादियं चेव । अग्गहविणिवित्ती जा सेट्ठा सा दाणपारमिया ॥७३७॥ ( ददतो हिरण्यादि अभ्यासाद्देहादिकमेव । आग्रहविनिवृत्तिर्या श्रेष्ठा सा दानपारमिता ॥७३७॥) ददतो-ददानस्य हिरण्यादिकमभ्यासात् प्रकर्षप्राप्तात् देहादिकमपि ददतो या हिरण्यादिविषया आग्रहविनिवृत्तिः-मूर्छानिवृत्तिः श्रेष्ठा-अत्यन्तविशुद्धा सा दानपारमिता भवति ।।७३७।। ततः किमित्याह - तदभावम्मि य कह सा ? चित्ताओ चेव दाणरूवाओ । तंपऽगहिते ण जुत्तं अथिम्मि गहोवि कहा जह) पुव्वि ॥७३८॥ (तदभावे च कथं सा ? चित्तादेव दानरूपात् । तदपि अगृहीते न युक्तमर्थिनि ग्रहोऽपि कथं पूर्वम् ॥७३८॥) तदभावे च-हिरण्यादिलक्षणबाह्यार्थाभावे च कथं सा-दानपारमिता भवेत् ? नैव भवेदितिभावः, तस्यास्तदतिसजनरूपत्वात् । अथोच्येत चित्तादेव दानरूपात्सा दानपारमितेष्यते यथा - 'मया स्वदेहादिकमपि दत्त्वा परेषामुपकर्त्तव्य'मित्यत्राह-'तंपीत्यादि' । ननु तदपि दानरूपं चित्तमर्थिन्यगृहीते सति सर्वथा न युक्तं, तथानुभवाभावात्, ग्रहश्चार्थिनः कथमुपपद्यते ? नैव कथंचनेत्यर्थः । कथमित्याह-'जह पुट्वि' । यथाभिहितं प्राक् प्रपंचेन तथा नोपपद्यते ॥७३८॥ अत्र पर आह - अग्गहियम्मिवि जायइ चित्तुप्पातो तहाविहो तस्स । नियहेतुसहावातो इतरस्सवि लुद्धचित्तस्स ॥७३९॥ (अगृहीतेऽपि जायते, चित्तोत्पादस्तथाविधस्तस्य । निजहेतुस्वभावादितरस्यापि लुब्धचित्तस्य ॥७३९॥) अगृहीतेऽप्यर्थिनि तस्य-बुद्धस्य भगवतो निजहेतुस्वभावतः-तथाभूतस्वकारणकलापसामग्रीसद्भावतस्तथाविधाश्चित्तोत्पादो जायते यथा - 'मयैतस्मायुपकर्त्तव्य'मिति । इतरस्यापि च लुब्धचित्तस्य हिरण्यग्रहणाभिमुखीभूतमानसस्य निजहेतुस्वभावतस्तथाविधचित्तोत्पादो जायते यतोऽस्माकमयं भगवानुपकारक इति प्रतीतिरुपजायते, ततो नेह कश्चित्पूर्वोक्तदोषप्रसङ्गः ।।७३९।। अत्राह - Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005535
Book TitleAnekantjaipataka Part 04
Original Sutra AuthorN/A
AuthorBhavyasundarvijay, Yashratnavijay
PublisherJingun Aradhak Trust
Publication Year2013
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy