SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - २ बाह्यार्थसिद्धि-अधिकार एतदेवाह - कालो उ भेदगो चेव तब्भावे कह ण बज्झसिद्धित्ति ? । नाणंतरंपि भिन्नाभिन्नद्धमजुत्तमेजुत्तं ( मेगंता) ॥७०६॥ (कालस्तु भेदक एव तद्भावे कथं न बाह्यसिद्धिरिति ? । ज्ञानान्तरमपि भिन्नाभिन्नाद्धमयुक्तमेकान्तेन ॥७०६॥) कथमुच्यते भेदकभावाभावो ? यावता अस्ति कालो भेदकः,. तथाहि-विवक्षितं चरमं नीलज्ञानमिदानींतनक्षणवर्त्ति ततः पीतादिज्ञानहेतुः, शेषाणि तु तदन्यक्षणवर्तीनि, ततो नीलज्ञानस्यैव तानि कारणानि इति चेत् ? ननु तद्भावे कथं न बाह्यार्थसिद्धिः? तस्यापि (कालस्यापि) बाह्यार्थत्वात् । स्यादेतत् न कालो भेदकः, किंतु ज्ञानान्तरमेव, ततो नोक्तदोषप्रसङ्ग इति । अत आह-'णाणंतरंपी'त्यादि ज्ञानान्तरमपि तद्भेदकत्वेनाभ्युपगम्यमानं भिन्नाद्धं-भिन्नकालमभिन्नाद्धम्-अभिन्नकालं वा एकान्तेनायुक्तमेव । तथाहि-नाभिन्नाद्धं ज्ञानान्तरं भेदकं युक्तं, समकालभावितया परस्परमुपकार्योपकारकत्वाभावात् । भिन्नाद्धमपि ज्ञानान्तरं यावद्विवक्षितनीलज्ञानोपादनस्य वैशिष्ट्यं नाधत्ते तावन्न विवक्षितनीलज्ञानस्य भेदकं युक्तम्, उपादानस्य ततः सकाशात् विशेषाभावे फले विशेषायोगात्, उपादानस्य च ततो ज्ञानान्तराद्विशेषो न युक्तः, समकालभावित्वादिति, एतच्च ‘वइसिटुंपि न जुज्जइ खणिगत्ते कारणस्से'त्यादिना ग्रन्थेन विस्तरतः प्रागभिहितमिति नेह पुनः प्रतायते । तन्न ज्ञानान्तरमपि भेदकं युक्तमिति कथं विवक्षितं नीलज्ञानं पीतादिज्ञानहेतुरुपपद्यते ? ॥७०६।। जायइ य नीलसंवेदणाउ (तो) पीतादि तुह मतेणावि । सा जो इमस्स हेतू सो च्चिय बज्जत्थमो नेओ ॥७०७॥ (जायते च नीलसंवेदनात् पीतादि तव मतेनापि । तस्माद् योऽस्य हेतुः स एव बाह्यार्थो ज्ञेयः ।।७०७॥) जायते च विवक्षितान्नीलसंवेदनात्पीतादि-पीताद्याकारोपेतं ज्ञानं तव मतेनापि, 'ता' तस्माद् योऽस्य पीताद्याकारवैचित्र्यस्य हेतुः स एव बाह्यार्थो ज्ञेयः । मो निपातः पूरणे ॥७०७।। अत्र परस्याभिप्रायमाह - सिय अघडमाणभावे तुल्ले दोण्हंपऽभावओ होउ । नीसेससुण्णयच्चिय पडिहणिया अणुभवेणेसा ॥७०८॥ (स्यादघटमानभावे तुल्ये द्वयोरपि अभावतो भवतु । निःशेषशून्यतैव प्रतिभणिता अनुभवेन एषा ॥७०८॥) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005535
Book TitleAnekantjaipataka Part 04
Original Sutra AuthorN/A
AuthorBhavyasundarvijay, Yashratnavijay
PublisherJingun Aradhak Trust
Publication Year2013
Total Pages366
LanguageGujarati
ClassificationBook_Gujarati
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy