________________
अनेकान्तजयपताका
परिशिष्ट - २ अपि यथास्वमवधिभेदोपकल्पितैर्भेदैः भिन्नेष्विव प्रतिभात्सु बुद्धौ विवेकेषूपस्थापनाद्भिन्नविषया एव । तेन स्वभावस्यैव साध्यसाधनभावेऽपि न साध्यसाधनसंसर्गः ॥३/१८५।। - (म०) उक्तं तावद् भावादिशब्दानां व्यवच्छेदविषयत्वम् ।
येऽप्यभावादिशब्दा अभावस्य स्वरूपाभावात् तेऽपि रूपाभिधायिनो वस्तुवाचका नाशक्या एव । ...
पृ. ६०, पं. ५
यः पश्यत्यात्मानं तत्रास्याहमिति शाश्वतः स्नेहः । स्नेहात् सुखेषु तृष्यति तृष्णा दोषांस्तिरस्कुरुते ॥१/२१९॥
पृ. ६१, पं. १
गुणदर्शी परितृष्यन् ममेति तत्साधनान्युपादत्ते । तेनात्माभिनिवेशो यावत् तावत् स संसारे ॥१/२२०॥
पृ. ६१, पं. ३
आत्मनि सति परसंज्ञा स्वपरविभागात् परिग्रहद्वेषौ । अनयोः सम्प्रतिबद्धाः सर्वे दोषाः प्रजायन्ते ॥१/२२१॥
(म०) नन्वात्मभावनयापि मोक्षोऽस्ति । तत् किं नैरात्म्यभावनया ? यदाहुः-आत्मा.. मन्तव्यो निदिध्यासितव्यः इत्यादि । अत्राह___ यः पश्यत्यात्मानं तत्रात्मन्यस्य द्रष्टुरहमिति शाश्वतोऽनपायी स्नेहो भवति । स्नेहादात्मस्नेहात् सुखेषु तृष्यति, तृष्णावान् भवतीति । तृष्णा च सुखसाधनत्वेनाध्यवसितानां वस्तूनां दोषानशुचित्वादीन् तिरस्कुरुते प्रच्छादयति । दोषतिरस्करणात् गुणदर्शी शुचित्वेष्टत्वगुणान् पश्यन् परितृष्यन् ममेति ममेदं सुखम् इति गर्धमानस्तस्य सुखस्य साधनानि गर्भगमनादीन्युपादत्ते । तेनात्मदर्शनमूलत्वेन जन्मादेरात्माभिनिवेशो यावत् तावत् स आत्मदर्शी संसार एव । न केवलं जन्मप्रबन्धः, तस्य दोषा अपि समस्ताः सन्तीत्याह-आत्मनि सति ततोऽन्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org