________________
अनेकान्तजयपताका
परिशिष्ट - २ (स्वो०) अथानयोः कश्चिदतिशयोऽस्ति येनायं तथा चोदितः क्षीरविकार एव प्रवर्तते नान्यत्र । स एवातिशयोऽर्थक्रियार्थिप्रवृत्तिविषयो दधि । तत्फलविशेषोपादानभावलक्षितस्वभावं हि वस्तु दधीति । स च तादृशः स्वभावोऽन्यत्र नास्तीति प्रवृत्त्यभावादर्थिनः । तस्मात्तन्नोभयरूपमित्येकान्तवादः ॥
(म०) अथास्ति दध्नः सकाशाद् उष्ट्रस्यातिशयो विशेषः कश्चिद् येन विशेषेण चोदितेन भेदेन प्रतिनियमेन दधिशब्दात् दन्येव, उष्ट्रशब्दादुष्ट्र एव प्रवर्त्तते । एवं तर्हि स विशेष एवान्यत्रासम्भवी उष्ट्रो विशेषो दधिलक्षणेऽन्यत्र वस्तुनि नास्तीति सर्वं वस्त्वनुभयं न स्वपररूपम् किन्तु परमेव परस्मात् ॥
पृ. ४९, पं. १
(स्वो०) अपि च - सर्वात्मत्वे च सर्वेषां भिन्नौ स्यातां न धीध्वनी ॥३/१८४॥ भेदसंहारवादस्य तदभावादसम्भवः ।
(स्वो०) सोऽयमहीकः क्वचिदप्येकमाकारं प्रतिनियतमपश्यन् विभागाभावाद् भावानां कथमसंसृष्टाऽन्याकारवत्या बुद्ध्याऽधिमुच्येतार्थानभिलपेद्वा ? ततो भेदाग्रहात् तत्संहारवादो न स्यात्-स्यादुष्ट्रो दधि स्यान्नेति ।
अथ पुनरसंसृष्टावाकारौ प्रतिपद्य संहरेद् । एकरूपसंसर्गिण्या बुद्धेः क्वचित् प्रतिनियमात्तत्प्रतिभासकृत् एतयोः रूपयोः स्वभावभेदोऽपि स्यात्, एकानेकव्यवस्थितेः प्रतिभासविषयत्वात् । तथा च नैकस्तदुभयरूप स्यादिति मिथ्यावाद एषः ।
स्थितमेतन्न भावानां कश्चित् स्वभावान्वयोऽस्ति । भेदलक्षणमेव तु सामान्यम् । अथ च प्रकृत्या केचिदेकज्ञानादिफलाः केचिन्नेति ।
भवतु नाम भावानां स्वभावभेदः सामान्यम् । येषां तु निरुपाख्यानां स्वभाव एव नास्ति तत्र कथं स्वभावभेदविषयाः शब्दाः ? तेष्ववश्यं शब्दप्रवृत्त्या भाव्यम्, कथंचिदव्यवस्थापितेषु विधिप्रतिषेधायोगात् । तथा च सर्वत्रायमन्वयव्यतिरेकाश्रयो व्यवहारो न स्याद्-उष्णस्वभावोऽग्निर्नानुष्ण इत्यपि, स्वभावान्तरस्यासतः कथंचिदव्यवस्थापनात् सर्वथा प्रतिपत्तेरग्निस्वभावस्याप्रतिपत्तिरिति व्यामूढं जगत् स्यात् ।
स्यादेतत्-न तत्र कस्यचिदसतो निषेधः । अनुष्णं सदेवार्थान्तरं निषिध्यत इति । कथमिदानीं सदसन्नाम ? न ब्रूमः सर्वत्रासत् । तत्र नास्तीति देशकालधर्मनिषेध एव सर्वत्र
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org