________________
પરિશિષ્ટ : ધર્મતીર્થ સ્થાપના – ઉદ્દેશ અને વિધિ
૪૬૩ गणधरेणाऽविरहितं भवति, स च ज्येष्ठोऽन्यो वा भवेत्, प्रायो ज्येष्ठ एव। स च ज्येष्ठगणिरन्यो वा पूर्वद्वारेणप्रविश्य दक्षिणपूर्व दिग्भागे 'अदूरे' प्रत्यासन्न एव भगवतो भगवन्तं प्रणिपत्य निषीदति। शेषा अपि गणधरा एवमेवाभिवन्द्य ज्येष्ठधणधरस्य मार्गतः पार्श्वतश्च निषीदन्तीति।।११८३ ।।
(बृहत्कल्पसूत्र० श्लोक-११८३, मूल-टीका) + येऽल्पर्द्धयः पूर्वं भगवतः समवसरणे स्थितास्ते आगच्छन्तं महद्धिकं "प्रणिपतन्ति" नमस्कुर्वन्ति। अथ महर्द्धिकः प्रथमं स्थितः ततो येऽल्पर्द्धयः पश्चादागच्छन्ति ते महद्धिकं पूर्वस्थितमपि प्रणमन्तो व्रजन्ति यथास्थानम्।
__ (बृहत्कल्पसूत्र० श्लोक-११८९, टीका) आह कृतकृत्योऽपि भगवान् किमिति तीर्थप्रणामं करोति? इति उच्यतेतप्पुब्विया अरहया, पूइयपूया य विणयमूलं च । कयकिच्चो वि जह कहं, कहेइ नमए तहा तित्थं । ।११९४ ।। "तीर्थ" श्रुतज्ञानं तत्पूर्विका "अर्हत्ता" तीर्थकरता, न खलु भवान्तरेषु श्रुताभ्यासमन्तरेण भगवत एवमेवाऽऽर्हन्त्यलक्ष्मीरुपढौकते। तथा पूजितस्य पूजा पूजितपूजा, सा च तीर्थस्य कृता भवति, पूजितपूजको हि लोकः, ततो यद्यहं तीर्थं पूजयामि ततस्तीर्थकरस्यापि पूज्यमिदमिति कृत्वा लोकोऽपि पूजयिष्यति। तथा विनयमूलं धर्म प्ररूपयिष्यामि, अतः प्रथमतो विनयं प्रयुञ्जे, येन लोकः सर्वोऽपि मद्वचनं सुतरां श्रद्दधीत। अथवा कृतकृत्योऽपि भगवान् यथा कथां कथयति तथा तीर्थमपि नमति। आह नन्वेतदप्यसमीचीनं यत् कृतकृत्यः सन् धर्मदेशनां करोति, नैवम्, अभिप्रायापरिज्ञानाद्, भगवता हि तीर्थकरनामगोत्रं कर्मावश्यवेदयितव्यम्, तस्य च वेदनेऽयमेवोपायो यद् अग्लान्या धर्मदेशनादिकरणम्, "तं च कहं वेइज्जइ? अगिलाए धम्मदेसणाईहिं" ति (आव.नि.गा.१८३) वचनात्।।११९४ ।।
(बृहत्कल्पसूत्र० श्लोक-११९४, मूल-टीका) + अथोत्थायोत्तरद्वारवर्त्मना निर्ययौ प्रभुः। अन्वीयमानो देवेन्द्रैः, पद्मखण्ड इवाऽलिभिः।।६७५ ।। रत्नमयस्वर्णमयवप्रयोरन्तरस्थिते। व्यश्राम्यद् भगवान् देवच्छन्द ईशानदिक्स्थिते।।६७६।।
(त्रिषष्टिशलाकापुरुषचरित्र पर्व-१, सर्ग-३) + "धर्म" श्रद्धेयज्ञेयानुष्ठेयवस्तुश्रद्धानज्ञानानुष्ठानरूपं। तथा परिकथयति अशेषविशेषकथनेनेति। तथा "तेसिं सव्वेसिं
आरियमणारियाणं अगिलाए धम्ममाइक्खई" न केवलं ऋषिपर्षदादीनां, ये वन्दनाद्यर्थमागतास्तेषां च सर्वेषामार्याणाम्आर्यदेशोत्पन्नानामनार्याणां-म्लेच्छानामग्लान्या-अखेदेनेति।।
(उपासकदशांगसूत्र अध्ययन-२, सूत्र-२४, अभयदेवसूरि कृत टीका) + सभायामायाताः सुरनरतिरश्चां तव गणा:, स्फुटाटोपं कोपं न दधति न पीडामपि मिथः। न भीतिं नानीतिं त्वदतिशयतः केवलमिमे, सकर्णाः कर्णाभ्यां गिरमिह पिबन्ति प्रतिकलम्।।३०।।
(स्तोत्रावली अंतर्गत गोडीपार्श्वजिनस्तोत्र) - પદ તૃતીયે તે આચાર્ય નમીએ, પૂર્વ સંચિત સકલ પાપ ગમિએ; શાસનાધાર શાસન ઉલ્લાસી, ભૃતબલે તેહ
સકલ પ્રકાશી. ૭૧ (ચાલિ) કહિયે મુગતિ પધાર્યા રે, જિનવર દાખી પંથ, ધરે રે આચાર્ય આર્યનીતિ પ્રવચન નિગ્રંથ; મૂરખ શિષ્યને શિખવી, પંડિત કરે રે પ્રધાન, એ અચરિજ પાષાણે, પલ્લવ ઉદય સમાન. ૭૨ (દુહા) ભાવ આચાર્ય ગુણ અતિ પ્રભૂત, ચક્ષુ આલંબન મેઢિભૂત; તે કહ્યો સૂત્રે જિનરાય સરિખો, તેહની આણ મત કોઈ ધરખો. ૭૩ (ચાલિ) સુબહુશ્રુત કૃતકર્મા, ધર્માધાર શરીર, નિજપરસમયધારી,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org