________________
ધર્મતીર્થ સ્થાપના – ઉદ્દેશ અને વિધિ
૨૫૩ લૌકિકન્યાય બરાબર ન પ્રવર્તાવે તો તે રાજસત્તા સાચી રાજસત્તા નથી. જે રાજ્ય પ્રજામાં કોઈ અન્યાય, અનીતિ, દમન, શોષણ ચલાવે, અથવા તેને અટકાવનાર યોગ્ય કાયદા-કાનૂન ન मज्झत्था इति भावतः पुन!आगमतो व्यवहारिणो मध्यस्था मध्य रागद्वेषयोरपांतराले तिष्ठंतीति मध्यस्थाः ये परलंचोपचार-मंतरेणारक्ताद्विष्टाः संतो न्यायैकनिष्ठतया व्यवहारपरिच्छेत्तास्ते नोआगमतोलौकिकभावव्यवहारिण इति भावः, अधुना लोकोत्तरिकान् नोआगमतो द्रव्यव्यवहारिणः प्रतिपादयति, उत्तरदव्वअगीया इत्यादि, उत्तरे लोकोत्तरे द्रव्ये विचार्यमाणा नोआगमतो द्रव्यव्यवहारिणोऽगीता अगीतार्थाः ते हि यथावस्थितं व्यवहारं न कर्तुमवबुध्यंते, ततस्तद्रव्यव्यवहारो द्रव्यव्यवहार एव भावस्य यथावस्थितपरिज्ञान-लक्षणस्याभावात् द्रव्यशब्दोऽत्राप्रधानवाची, अप्रधानव्यवहारिणस्ते इत्यर्थः, गीयावालंचपक्खेहिं इति, यदिवा गीतार्था अपि संतो ये परलंचामुपजीव्य व्यवहारं परिच्छिदंति, तेऽपि द्रव्यव्यवहारिणोऽथवा विना लंचां गीतार्था अपि ये ममायं भ्राता ममायं निजक इति पक्षेण पक्षपाते व्यवहारकारिणस्तेऽपि द्रव्यव्यवहारिणः मध्यस्थरूपस्य।। संप्रति नोआगमतो लोकोत्तरिकान् भावव्यवहारिणः प्राहपियधम्मादढधम्मा, संविग्गा चेव वज्जभीरु अ । सुत्तत्थतदुभयविऊ, अनिस्सियववहारकारी य ||भा०१४।।
(व्यवहारसूत्र पीठिका, भाष्यगाथा १३, १४ मूल, आ. मलयगिरिजी कृता टीका) * संप्रति पियधम्मे य बहुसुए इत्यस्य व्याख्यानमाहपियधम्मोजावसुयंववहारन्ना उ जे समक्खाया । सव्वेवि जहादिठ्ठा, ववहरियव्वा य ते होंति ||भा०२६ ।। इहाद्यंतग्रहणे मध्यस्यापि ग्रहणमिति न्यायात्, प्रियधर्मबहुश्रुतग्रहणे तदंतरालवर्तिनामपि दृढधर्मादीनां ग्रहणं, ततः प्रियधर्मण आरभ्य यावत् श्रुतं सूत्रार्थतदुभयविद इति पदं तावत् ये व्यवहारज्ञा व्यवहारपरिच्छेदकर्तारः प्राक्समाख्यातास्ते सर्वेऽपि यथोद्दिष्टा यथोक्तस्वरूपा व्यवहर्त्तव्या भावव्यवहर्त्तव्या भवंति, प्रत्येतव्या इति शेषः, प्रियधर्मादितया सूत्रार्थतदुभयवित्तया च तेषां प्रज्ञापनीयत्वात् इति व्यवहारः प्रायश्चित्तव्यवहारः आभवत्सचित्तादिव्यवहारश्च तत्र द्विविधेऽपि व्यवहारे व्यवहर्त्तव्यं ।।२६।। प्रायो गीतार्थेन सह-नागीतार्थेन तथा चाहअगीएणं सद्धिं, ववहरियव्वं न चेव पुरिसेन । जम्हा सो ववहारे कयंमि सम्मं न सद्दहति । ।भा०२७।। इह यः स्वयं व्यवहारमवबुध्यते प्रतिपाद्यमानो वा प्रतिपद्यते व्यवहारं स गीतार्थः, इतरस्त्वगीतार्थः, तत्रागीतेनागीतार्थेन सार्द्धं नैव पुरुषेण व्यवहर्त्तव्यं; कस्मादित्याह, यस्मात् सोऽगीतार्थो व्यवहारे कृतेऽपि न सम्यक् श्रद्धते न परिपूर्णमपि व्यवहारं कृतं तथेति प्रतिपद्यते, इति तस्माद् गीतार्थेन सह व्यवहर्त्तव्यं ।।२७।। यत आहदुविहंमि ववहारे गीयत्थो पणविज्जई जंतु । तं सम्म पडिवज्जइ गीयत्यंमी गुणा चेव ||भा०२८ ।। द्विविधेऽपि प्रायश्चित्तलक्षणे आभवत्सचित्तादिव्यहारलक्षणे च व्यवहारे गीतार्थो यत्प्रत्याख्याप्यते, पाठांतरं पणविज्जइ प्रज्ञाप्यते तत्सम्यक् प्रतिपद्यते गीतार्थत्वात्, तथा चाह गीयत्थंमी गुणा चेव, गीतार्थे गुणा एव नाऽगुणाः अगुणवतो गीतार्थत्वायोगात्, यथा च गीतार्थः संप्रतिपाद्यमानः सम्यक् प्रतिपद्यते ।।२८।।
(व्यवहारसूत्र पीठिका, भाष्यगाथा २६, २७, २८ मूल, आ. मलयगिरिजी कृता टीका) १. यो हि धर्मपरो राजा देवांशोऽन्यश्च रक्षसाम्। अंशभूतो धर्मलोपी प्रजापीडाकरो भवेत्।।
(शुक्रनीति, १/७०)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org