________________
૧૮૨
પરિશિષ્ટ : ભાવતીર્થ- અનુષ્ઠાન
| परिशिष्ट : भावतीर्थ-अनुष्ठान
+ इदृग्भङ्गशतोपेताऽहिंसा यत्रोपवर्ण्यते। सर्वांशपरिशुद्धं तत्प्रमाणं जिनशासनम्।।५६।।
(अध्यात्मसार, अधिकार-१२) + महति दोषानुबन्धे हि मूलगुणादिभंगरूपे विधीयमाने धर्मः स्वरूपमेव न लभतेऽल्पातिचारानुबन्धे च भवन्नपि धर्मः शबलस्वरूप एव संभवतीति तात्पर्यम्। ।
(उपदेशरहस्य, श्लोक-६२, टीका) गुरोर्न दूषणम्, तदीयाविधिप्ररूपणमवलम्ब्य श्रोतुरविधिप्रवृत्तौ च तस्योन्मार्गप्रवर्तनपरिणामादवश्यं महादूषणमेव, तथा च श्रुतकेवलिनो वचनम्-"जह सरणमुवगयाणं, जीवाण सिरो निकिंतए जो उ। एवं आयरिओ वि हु, "उस्सुत्तं पण्णवेतो य [उपदेशमाला-५१८] । न केवलमविधिप्ररूपणे दोषः, किन्त्वविधिप्ररूपणाभोगेऽविधिनिषेधासम्भवात् तदाशंसनानुमोदनापत्तेः फलतस्तत्प्रवर्तकत्वाद्दोष एव। तस्मात् "स्वयमेतेऽविधिप्रवृत्ता नात्रास्माकं दोषो, वयं हि क्रियामेवोपदिशामो न त्वविधिम्" एतावन्मात्रमपुष्टालम्बनमवलम्ब्य नोदासितव्यं परहितनिरतेन धर्माचार्येण, किन्तु सर्वोद्यमेनाविधिनिषेधेन विधावेव श्रोतारः प्रवर्तनीयाः, एवं हि ते मार्ग प्रवेशिताः, अन्यथा तून्मार्गप्रवेशनेन नाशिताः। एतदपि भावयितव्यमिह तीर्थोच्छेदभीरुभिः-विधिव्यवस्थापनेनैव ह्येकस्यापि जीवस्य सम्यग् बोधिलाभे चतुर्दशरज्ज्वात्मकलोकेऽमारिपटहवादनात्तीर्थोन्नतिः, अविधिस्थापने च विपर्ययात्तीर्थोच्छेद एवेति । यस्तु श्रोता विधिशास्त्रश्रवणकालेऽपि न संवेगभागी तस्य धर्मश्रावणेऽपि महादोष एव, तथा चोक्तं ग्रन्थकृतैव षोडशके- "यः शृण्वत् सिद्धान्तं, विषयपिपासातिरेकतः पापः। प्राप्नोति न संवेगं, तदापि यः सोऽचिकित्स्य इति।।१।।
(योगविंशिका, श्लोक-१५, उपा. यशोविजयजी टीका) "लोकमालम्ब्य कर्तव्यं, कृतं बहुभिरेव चेत्। तदा मिथ्यादृशां धर्मो, न त्याज्य: स्यात्कदाचन (ज्ञानसारे २३-४) स्तोका आर्या अनार्येभ्यः, स्तोका जैनाश्च तेष्वपि। सुश्राद्धास्तेष्वपि स्तोकाः, स्तोकास्तेष्वपि सत्क्रियाः।।२।। श्रेयोऽर्थिनो हि भूयांसो, लोके लोकोत्तरे च न। स्तोका हि रत्नवणिजः, स्तोकाश्च स्वात्मशोधकाः।।३।। (ज्ञानसारे २३-५) एकोऽपि शास्त्रनीत्या यो, वर्तते स महाजनः। किमज्ञसाथैः? शतमप्यन्धानां नैव पश्यति।।४।। यत्संविग्नजनाचीर्णं, श्रुतवाक्यैरबाधितम्। तज्जीतं व्यवहाराख्यं, पारम्पर्यविशुद्धिमत्।।५।। यदाचीर्णमसंविग्नैः, श्रुतार्थानवलम्बिभिः। न जीतं व्यवहारस्तदन्धसंततिसम्भवम्।।६।। आकल्पव्यवहारा), श्रुतं न व्यवहारकम्। इतिवक्तुर्महत्तन्त्रे, प्रायश्चित्तं प्रदर्शितम्।।७।। तस्माच्छुतानुसारेण, विध्येकरसिकैर्जनैः। संविग्नजीतमालम्ब्य-मित्याज्ञा पारमेश्वरी।।८।।"
(योगविंशिका, श्लोक-१६, उपा. यशोविजयजी टीका) कथं च शृङ्गग्राहिकयाऽतिदेशेन चैतेषां हिंसकत्वानुक्तावपि तथाप्रलापकारिणां नानन्तसंसारित्वम्? शासनोच्छेदकारिणीमनन्तानुबन्धिनीमायां विनेदृशप्रलापस्यासंभवात्।
___ (प्रतिमाशतक, श्लोक-५३, टीका) लोके च साधुवादो भवत्यतुच्छभावेनाकार्पण्येन शोभनो धर्म इत्येवंभूतः, तथा पुरुषोत्तमप्रणीतः सर्वत्र दयाप्रवृत्तेः, प्रभावनैवं तीर्थस्य भवति।
(प्रतिमाशतक, श्लोक-६७ टीका अन्तर्गत स्तवपरिज्ञा श्लोक-१५, टीका)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org