________________
૩૧૦
ભાવતીર્થ - ચતુર્વિધ શ્રીસંઘ तप्पुब्विया अरिहया पूजितपूया य विणयकम्मं च। कयकिच्चो वि जह कहं कहेति णमते तहा तित्थं ।।४० ।। व्याख्या-तत्पूर्विका तीर्थहेतुका। तीर्थं च संघः। ‘अरिहय त्ति' अर्हत्ता तीर्थकरत्वं प्रवचनवात्सल्यादिलभ्यत्वात्तस्याः। तथा पूजितस्य सतः पूज्यैर्या संघस्य पूजा सा पूजितपूजा सा च प्रवर्ततां पूजितपूजकत्वाल्लोकस्य । तथा विनयकर्म च वैनयिककृत्यं च कृतज्ञताधर्मगर्भ कृतं भवतु, विनयमूलो धर्म इत्याविष्करणार्थं । इत्येवं कारणत्रयान्नमति तीर्थमिति योगः। अथ कृतकृत्यस्य किं तीर्थनमनेनेत्यत आह-कृतकृत्योऽपि निष्ठितार्थोऽपि, आस्तामितरः । यथा यद्वत् । कथां धर्मदेशनां । कथयति करोति। नमति प्रणमति। तथा तद्वत्। तीर्थं संघं तीर्थकरनामकर्मोदयादौचित्यप्रवृत्तेरिति गाथार्थः।।४०।। एयम्मि पूजियम्मी णत्थि तयं जं ण पूजिय होइ। भुअणे वि पूयणिज्जं ण गुणट्ठाणं ततो अण्णं ।।४१ ।।
(पंचाशक0 प्रतिष्ठाप्रकरण पंचाशक मूल-टीका) ★ तीर्थकरोऽपि चैनं-सचं तीर्थसंज्ञिनं नमति धर्मकथादौ गुरुभावत एव, ‘नमस्तीर्थाये'ति वचनादेतदेवमिति .... ।।११३५ ।। ... 'पूजितपूजा चेति भगवता पूजितस्य पूजा भवति, पूजितपूजकत्वाल्लोकस्य, विनयकर्म च कृतज्ञताधर्मगर्भं कृतं भवति... ।।११३६।।
(पंचवस्तुक श्लोक ११३५-११३६ टीका) ★ गुणसमुदाओ संघो पवयणतित्थंति होइ एगट्ठा। तित्थयरो वि य एवं णमइ गुरुभावओ चेव।।२६।। गुणसमुदायः सङ्घोऽनेकप्राणिस्थसम्यग्दर्शनाद्यात्मकत्वात्। प्रवचनं तीर्थम् इति भवन्त्येकार्थिका:-एवमादयोऽस्य शब्दा इति। तीर्थकरोऽपि चैनं सङ्घ तीर्थसंज्ञितं नमति धर्मकथादौ गुरुभावत एव 'नमस्तीर्थाय' इति वचनादेतदेवमिति।।२६।। अत्रैवोपपत्त्यन्तरमाह'तप्पुब्विया अरहया, पुइअपुआ य वियणकम्मं च । कयकिच्चो वि जह कहं कहेइ णमए तहा तित्थं । ।२७ ।। तत्पूर्विकाऽहत्ता तदुक्तानुष्ठानफलत्वात्, पूजितपूजा चेति, भगवता पूजितस्य पूजा भवति, पूजितपूजकत्वाल्लोकस्य, विनयकर्म च कृतज्ञताधर्मगर्भं कृतं भवति, यद्वा किमन्येन? कृतकृत्योऽपि स भगवान् यथा कथां कथयति धर्मसम्बद्धाम्, तथा नमति तीर्थम्, तीर्थकरनामकादयादेवौचित्यप्रवृत्तेरिति।।२७।। एयम्मि पुईअंमि णत्थि तयं जं न पुइअं होइ। भुवणेवि पुअणिज्जं ण अस्थि थाणं तओ अण्णं ।।२८।। एतस्मिन् पूजिते नास्ति तद् यत् पूजितं न भवति, भुवनेऽपि पूज्यं नास्त्यन्यत्ततः स्थानम्।।२८।।
(प्रतिमाशतक श्लोक ६७ टीका) ★ यदि च तीर्थस्य भगवदभिवन्द्यत्वात् प्रथमगणधरस्यापि तीर्थशब्दाभिधेयत्वेन तथात्वाद् न दोषः, तदा चातुर्वर्ण्यश्रमणसंघस्यापि तीर्थशब्दाभिधेयत्वादार्यकाणामपि तत्रान्तर्भावात् तुल्यमेतत्। (शास्त्रवार्ता समुच्चय स्तबक - ११ श्लोक ५४ टीका) ★ प्रोच्यन्तेऽनेन, अस्मात्, अस्मिन् वा जीवादयः पदार्था इति प्रवचनम्, अथवा प्रशब्दस्याऽव्ययत्वेनाऽनेकार्थद्योतकत्वात् प्रगतं जीवादिपदार्थव्यापकं, प्रधानं, प्रशस्तम्, आदौ वा वचनं प्रवचनं द्वादशाङ्गं गणिपिटकम्, आदित्वं चाऽस्य विवक्षिततीर्थकरापेक्षया द्रष्टव्यम्, “नमस्तीर्थाय” इति वचनात् तीर्थकरेणाऽपि तन्नमस्करणादिति। अथवा जीवादितत्त्वं प्रवक्तीति प्रवचनमिति व्युत्पत्तेादशाङ्गम्, गणिपिटकोपयोगानन्यत्वाद् वा चतुर्विधश्रीश्रमणसङ्घोऽपि प्रवचनमुच्यते।
(विशेषावश्यकभाष्य श्लोक - १ टीका) ★ अथ “तित्थपणामं काउं” [आवश्यकनि० समवस0 गा0 ४५] इत्याद्यागमप्रामाण्यात् प्रथमगणधरस्य 'तीर्थ' शब्दाभिधेयत्वात् तदवन्द्यत्वं तस्यासिद्धं तर्हि चातुर्वर्ण्यश्रमणसंघस्यापि 'तीर्थ' शब्दवाच्यत्वात् तत्र तु तासामन्तर्भावात् महाव्रतस्थपुरुषावन्द्यत्वं तासामपि असिद्धम्।
(सन्मतितर्कप्रकरण तृतीय कांड श्लोक ६५ टीका)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org