SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ श्री पदमूविजय विरचिता तत्र सुरसुखानि भुक्त्वा मदनजीवो विजयुपराह्ने नगरे समरसेनभूपस्य विजयावल्यां राज्ञ्यां मणिप्रभाह्नः पुत्रोऽभूत् । स पित्राऽर्पितराज्यभरो बहुकालं राज्यश्रियं भुक्त्वा, कमलवनं म्लानं दृष्ट्रा प्रतिबुद्धः सन् राज्यं पुत्रे न्यस्य जिनेश्वरसूरेः पार्श्वे दीक्षामुपाददे। स च तपसाऽवधिज्ञानाऽऽकाशगमनशक्तिरभूत् । अथ धनदेवस्य जीवः स्वर्गतश्च्युत्वा वैताढ्यगिरौ रथनूपुरचक्रवालनगरे महेन्द्रसिंहाभिधो विद्याधरचक्रवर्त्यभूत् । अस्य पत्नी रत्नमाला, पुत्रौ च रत्नचूड-मणिचूडौ । 168 अन्येद्युस्तस्य पत्नी महारोगाद् मृता, तन्मोहवशाद् एष विद्याधरचक्रवर्ती शोकार्तो व्यलपत्। अथ मणिप्रभो मुनिपतिर्ज्ञानेन तमवबुध्य पूर्वभवस्नेहवशाद् विहायसा तत्रागात्, स च चक्रवर्तिना वन्दितः । मुनिना पूर्वभवस्त्रीचरित्रमुक्त्वा प्रतिबोधितोऽयं राज्यभारं रत्नचूडसुते न्यस्य अस्य मुनेः समीपे प्रावजत् । समस्तागममधीत्य अत्युग्रं बहुविधं तपस्तप्त्वा क्रमादयं खेटराजर्षिर्लब्धिनिधानमभवत्। तौ द्वावपि अष्टाङ्गयोगसाधनया समस्तकर्ममलं क्षिप्त्वा क्रमतः शिवपदमापतुः एवं ये बुधा मदनेन सह धनदेववद् विषयसुखं दुःखहेतुं परिभाव्य ततो विरक्ताश्चरणं विदधति ते भव्याः क्रमात्ः शिवपदमापतुः। एवं ये बुधा मदनेन सह धनदेववद् विषयसुखं दुःखहेतुं परिभाव्य ततो विरक्ताश्चरणं विदधति ते भव्याः क्रमात् शिवपदं प्राप्नुवन्ति । एतद् मदनचरितं धनदेवचरित्रं च निशम्य विचिन्त्य च इह-परभवे चाऽत्यन्तदुःखप्रदाभी रमणीभि: सौख्याभिलाषं कः कलयति ?...” । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005520
Book TitleMadan Dhandev Charitra
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages180
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy