SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ 158 श्री पदमविजय विरचिता "शुद्धज्ञान-क्रियाभ्यां य:, प्राप्य मोहजयश्रियम्। परां ज्ञानरमा लेभे, तस्मै सर्वविदे नमः" ॥१॥ स्त्रीणां दुश्चरितं दृष्टा ये भोगेभ्यो विरमन्ति ते श्रेय:श्रियां पात्रं स्युः, अत्र मदनधनदेवौ दृष्टान्तः। तथाहि-अत्रैव भरते कुशस्थलसन्निवेशे नाम-रुपाभ्यां मदनो नाम श्रेष्ठ्यभूत्। मदनस्य रति-प्रीती इव तस्य यथार्थाख्ये चण्डा-प्रचण्डाढे बाल्यादपि कुतोऽप्याप्तबहुविद्याबलान्विते द्वे प्रिये अभूताम्। ते च द्वे अपि यैस्तैरपि कारणैः परस्परं कलहायेते, निषिद्धे अपि च भृशं कोपाऽभिमानाभ्यां न तिष्ठतः। ततो मदन: प्रचण्डां निकटग्रामेऽस्थापयत्, दिनानां च नियमं कृत्वा एकैकस्या गृहे तिष्ठति। __ अन्यदा केनापि हेतुना प्रचण्डाया गृहे एकं दिनमधिकं स्थित्वा चण्डाया गृहेऽगमत्, तदा सा कणान् खण्डयन्ती तं समागच्छन्तं दृष्ट्रा रे दुष्ट! दुष्टा प्रचण्डा तवेष्टा, किमत्रागच्छसि? इति वादिनी क्रुधा तस्याऽभिमुखं मुशलं प्राक्षिपत्। तद्वीक्ष्य व्याकुलो मदनो नंष्ट्रा कियती भुवं गत्वा यावत् पश्चाद्विलोकते तावत्तत्र सर्पमैक्षत। स्फाटाटोपभयङ्करं च तं धावमानं दृष्ट्रा द्रुतं विशिष्य नंष्ट्रा स प्रचण्डाया गृहेऽगमत्। सापि तं तथा दृष्ट्वा प्रिय! भीति-श्वासाकुल:सत्वरं किमत्राऽऽगा:? इत्यपृच्छत्। मदनश्चण्डावृत्तं यथातथमवक्। साऽजल्पत्-एतत् किश्चिद्भयावहं नास्ति, तत् स्वस्थो भव । तावद् रौद्रो भुजङ्गमस्तद्गृहाङ्गणमागमत्। तदा सा क्रुद्धा शरीरोद्वर्तनभवान् पिण्डान् सद्योऽभ्यक्षिपत्, तैश्च बभ्रुभूतैरहिः खण्डश: कृत्वा न्यघाति। बभ्रुषु वापि गतेषु नानारससमाकुलो मदनश्चमत्कृतो दध्यौ-'चण्डाकोपात् प्रनष्टस्य मम प्रचण्डा शरणमभूत्, परं यदैषाऽपि कोपिष्यति तदा पुन: क: शरणम् ?। प्रियकारिणेऽपि य: कदापि न कुप्यति ईदृश: पृथिव्यां प्रायो दुर्लभः, तदैतादृशी दुष्टा कथं न क्रोत्स्यति?। तदिमे राक्षस्यौ त्यक्त्वा क्वचिद्देशान्तरे यामि, यत आत्मकुशलाय राज्यमपि त्याज्यम्'। इति ध्यात्वाऽन्येबू रहः स्वं बहुधनं गृहीत्वा मदनो देशान्तरे निर्ययौ, स्वेच्छया च भ्रमति। सोऽन्यदा सङ्काशपुरमागत्य उद्यानेऽशोकतरुतले उपविष्टस्तावत्तत्रागतेन भानुदत्तेन श्रेष्ठिनौच्यत- हे मदन! तव स्वागतम्, एहि, निजं गृहं यावः। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005520
Book TitleMadan Dhandev Charitra
Original Sutra AuthorN/A
AuthorTirthbhadravijay
PublisherShraman Seva Religious Trust
Publication Year2013
Total Pages180
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy