________________
154
श्री मुनिसुन्दरसूरिविरचिता
||२२१॥
||२२२॥
||२२४॥
अणुवैषयिकं सुखं भवे, तदपि स्याल्ललनाद्यसाधनम्। ललना त्वखिलापदां सखी, न बुधोऽस्मिन्ननुरज्यते ततः ॥२२० ।। परमे तदगत्वरे सदाप्यपवर्गस्य सुखेऽनुरज्यताम्। स च संयमसाधनो मतः, प्रतिपद्यध्वमतः सुसंयमम्" गोभिर्गुरुविधोस्तस्य, संवेगामृतवर्षकैः।। भवतृष्णाभवे तापे, गते प्राव्रजतामिमौ संविग्नौ गुरुणा तेन, सह व्यहरतां मुनी। नानातपांसि कुर्वाणौ, द्वादशाङ्ग्यामधीतिनौ
||२२३॥ सिद्धयोगौ मिथः प्रीत्या, सदा सह विहारिणौ। विधिना पूरितायुष्कौ, नारमत्यजतां वपुः उदभूतां च सौधर्मे, पञ्चपल्यायुषौ सुरौ । भुक्त्वा सुरसुखान्येतावुत्पन्नौ नृषु तद्यथा
||२२५॥ विजयपुरावे नगरे, पुत्रोऽभूत्समरसेनभूपस्य । विजयावल्या जातो, मणिप्रभाह्वो मदनजीवः ॥२२६॥ पित्राऽर्पितराज्यभरो, भुक्त्वा राज्यश्रियं बहुकाल। म्लानमवेक्ष्याऽब्जवनं, प्रतिबुद्धो राज्यमङ्गजे न्यस्य ||२२७॥ सैष जिनेश्वरसूरेः पार्थे, दीक्षामुपाददे भूपः । बहुतपसा लब्धावधिविज्ञानाऽऽकाशगमनशक्तिरभूत् ॥२२८ ।। अथ वैताढ्यगिरीन्द्रे, रथनूपुरचक्रवालवरनगरे । धनदेवस्य च जीवः, पूर्णायुः स्वर्गतश्च्युत्वा
||२२९॥ नाम्ना महेन्द्रसिंहो विद्याधरचक्रवर्त्यभूत्स महान् । पन्यस्य रत्नमाला, पुत्रावपि रत्नचूडमणिचूडौ ||२३०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org