________________
मदन-धनदेवकथा
143
||१००।
||१०१॥
पाठितौ तौ कलाः सर्वाः, कन्ये च परिणायितौ। सद्धर्मसुखलीनानां, तेषां कालस्त्वगात्कियान् ततो विशुद्धधर्मेण, पितरौ स्वर्गमीयतुः। सशोकौ बोधितौ पुत्रौ, मुनिचन्द्रमहर्षिणा प्रिये च कलहायेते, मिथः सस्नेहयोस्तयोः । ततो विभक्तसारौ तावस्थातां पृथगोकसो:
||१०२।। अथो लघीयसो जाया, स्वैरिणी न समाधिकृत् । वीक्ष्याऽन्यदा तमुद्विग्नं, ज्येष्ठोऽप्राक्षीच कारणम् ॥१०३॥ स्वीकृतं चाऽसमाधानमाह तस्मै ततो लघुः । विज्ञाय तदभिप्राय, धनसारः प्रयत्नतः
||१०४।। भ्रातृस्नेहाद्विलोक्याढ्यां, पुना रूपकलागुणैः । इभ्यजां धनदेवेन, कन्यकां पर्यणीनयत् ॥१०५ ।। युग्मम्।। सोऽभुङ्क्त धृतिमान् भोगांस्तया सह नवोढया। भाव्यत्वात्स्वैरिणी साऽपि, प्राक्पत्नीव क्रमादभूत् ॥१०६ ।। यदुक्तंप्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा। भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः अन्यदा धनदेवोऽथ, जिज्ञासुश्चरितं तयोः। जगौ सायं भृशं मेऽद्य, प्रिये! शीतज्वरोऽचटत्
॥१०८॥ आस्तृतायां ततश्चाऽऽभ्यां शय्यायां सोऽस्वपद् द्रुतम्। माययाऽदीदृशन्निद्रां वासोभः पिहितेक्षणात्
||१०९।।
||१०७।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org