SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ मानमाचारसाधना १२८ [ श्री वियप सरितपावनं शासनं जैनं पावनाशयशालिनः। समाराध्य समीहन्ते भावतस्तद्भवे भवे ।२६॥ आराधिता जिना देवा भावतो गुरवोऽपि यैः। साधितो जैनधर्मश्च तेषां मृत्योभयं कथम् ? ॥२७॥ पंचापि विषयास्त्यक्ताः कषाया यैर्विरागिभिः । क्षामिताः सकला जीवा भाविता भावनाः शुभाः ॥२८॥ जिनागमाः समभ्यस्ता विधिना गुरुसंनिधौं । तत्प्रधानप्रयोगा ये तेषां मृत्योभयं कथम् ? ॥२९॥ सत्पात्रेभ्यो ददानानां दानं सद्ब्रह्मचारिणाम् । ____ तपस्यासाम्ययोगानां तेषां मृत्योर्भयं कथम् ? ॥३०॥ उद्दिश्यात्मानमाचारसाधनाऽध्यात्ममीरितम् । . तत्र निश्चलचित्तानां तेषां मृत्योर्भयं कथम ? ॥३१॥ धर्मकर्ता गुरुवैद्यः धर्मज्ञो धर्मदेशकः । सदौषधं मोक्षमार्गसाधना ज्ञानपूर्विका ॥३२॥ पथ्यं सद्भावनायोगात् त्रयाणां च प्रणश्यति। मागमयो मिलन्तु मे त्रये एते भवे भवे।।३३॥ (युग्मम्) भताभ्यासो नतिर्देवे सत्कथाचार्यसंगतिः। दोषप्रकाशने मौन मियावागात्मभावना ॥३४॥ वैराग्यं गुणदृष्टिश्च विंशतिस्थानसेवना । अंतरालभवेष्वेते संपद्यन्तां भवे भवे ॥३५॥ आत्मवादादिभिस्तथैर्जयति जिनशासनम् । उत्कृष्टं सर्वधर्मेषु साधकाः संतु निर्मलाः ॥३६॥ निर्लेपाः पद्मवजाता अनंता अधुनाङ्गिनः।। भवन्ति च भविष्यति जैनधर्मस्य साधनात् ॥३७॥ जैनधर्मो रत्नतुल्यो धर्माश्चान्ये न तादृशाः। यथार्थकरणं जैने धर्मेऽन्यत्रैव भाषणम् ॥३८॥ जैनधर्मरताः सर्वे भवन्तु सुखिनः सदा।। मैत्रीप्रमोदकारुण्यसन्माध्यस्थ्यान्त्रितास्तथा ॥३९॥ मंगलं तीर्थराजो मे मारुदेवप्रभुस्तथा। शांतिनेमिपार्थवीरा देवाः कुर्वन्तु मंगलम् ॥४०॥ वर्षेऽत्र वैक्रमे श्रेष्ठे निधिनंदनवेन्दुगे। फाल्गुने सितपञ्चम्यां ग्रामे बोटादनामनि ॥४१॥ नेमिसूरीशशिष्येण कृतेयं पद्मररिणा। लक्ष्मीप्रमस्य विज्ञप्त्या श्रीतत्त्वामृतभावना (युग्मम्) ॥४२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005485
Book TitleDeshna Chintamani Part 03 04 05
Original Sutra AuthorN/A
AuthorVijaypadmsuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages616
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy